SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५४ चतुर्विंशतिप्रबन्धे [ १४ श्रीवस्तुपाठ अथ विक्रमादित्यात् १२९८ वर्ष प्राप्तम् । श्रीवस्तुपालो ज्वररुक्क्लेशेन पीडितः तदा तेजःपालं सपुत्रपौत्रं स्वपुत्रं च जयन्तसिंहमभाषत - वत्साः । श्रीनरचन्द्रसूरिभिर्मल्लधारिभिः संवत्१२८७ वर्षे भाद्रपदवदि १० दिने तेषां देवगमनसमये वैयमुक्ताःमन्त्रिन् । भवतां १२९८ वर्षे स्वर्गारोदो भविष्यति । तेषां वचांसि च न चलन्ति, गीः सिद्धिसम्पन्नम्मात् । ततो वयं श्री 'शत्रुञ्जयं' गमिष्याम एव । १० गुरुर्भिषग् युगादीश- प्रणिधानं रसायनम् । सर्वभूतदयापथ्यं सन्तु मे भवरुग्भिदे ॥ १ ॥ * " लब्धाः श्रियः सुखं स्पृष्टं, मुखं दृष्टं तनूरुहाम् | पूजितं दर्शनं जैनं, न मृत्योर्भयमस्ति मे || २ || कुटुम्बेन तन्मतम् । 'शत्रुञ्जय' गमनसामग्री निष्पन्ना | वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः मुत्कलापितश्च कतिपयपदानि सम्प्रेषणायायातः । ततो नागडप्रधानगृहं मन्त्री स्वयमगात् । १५ तेनासनादिभिः सत्कृत्य पृष्टः कार्यविशेषं मन्त्री बभाषे — वयं भवान्तरशुद्धाय 'विमल' गिरिं प्रति प्रतिष्ठामहे । भवद्भिजैनमुनयोऽमी ऋजवः सम्यग् रक्षणीयाः, क्लिष्टलोकात् । यतः — " गौर्जराणामिदं राज्यं, वनराजात् प्रभृत्यपि । स्थापितं जैनमन्त्री - स्तद्वेषी नैव नन्दति ॥ १॥' २० इति ज्ञातव्यम् । मन्त्रिनागडे नोक्तम् - श्वेताम्बरान् भक्त्या गौरवयिष्यामि । चिन्ता न कार्या । स्वस्त्यस्तु वः । इति तद्वचसा समतुषत् । अथ चचाल वस्तुपालः | 'अङ्केवालिआ ' ग्रामं यावत् प्राप तत्र शरीरं बाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो १ ग~' एवं काले गच्छति' । २ क- १२२८ वर्षे ' । ३ ४-५ अनुष्टुप् । ६ ग - 'तन्मानितम्' | 'गौर्जरात्रमिदं' । अनुष्टुप् । ग - ' वधमेवमुक्ताः' । ग - 'मन्त्रैस्तु' । ९
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy