SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशैत्यपराह्णये दत्तः । ' तत्क्षणमेव वैरोटययोत्तारितः । पानीयेनाभिषिक्तास्ते ततः स्वस्थाः सम्पन्नाः । एकस्तु शिशुर्विपुच्छो जातः । यदा स स्वति क्षितौ तदा वैरोट्या ते बण्डो जीवतु । वैरोट्याजातकस्थ स्नेहेन मोहितास्ते सर्वे बान्धषरूपाः सर्पाः क्षौमरत्नस्वर्णादि दस्त्रा नामकरणं च कारयित्वा यथास्थानं ययुः । वैरोट्या ५ नागप्रभावात् गौरवपात्रं जाता । ११ अन्यदाऽलिञ्जरः स्वपुत्रं पुच्छरहितं दृष्ट्वा चुकोध । 'मम पुत्रः केन दुरात्मना विपुच्छः कृतः । तप्तो वैराव्यया कृतो विपुच्छो मे पुत्र इत्यवधिना ज्ञात्वा वैरोट्याय उपरि पूर्व सुप्रसन्नोऽपि चुकोप । कुपितः सन् विरूपं कर्तुं नैरोट्यागृहमगमत् । १० अलिञ्जरो गूढनुगृर्हमध्ये स्थितः । यदा वैरोट्या ध्वान्तभरे सति गृह पवरकमध्ये प्रविष्टा तदा तयोक्तम्- बण्डो जीवतु "चिरम् । तच्छ्रुत्वा नागराजः सन्तुष्टस्तस्यै नूपुरे ददौ । अथप्रभृति वत्से ! स्वया पाताले आगन्तव्यम्, नागाश्च स्वगृहमेष्यन्ति इति प्रसादः कृतः । सा वैरोट्या पाताले गमनागमनं करोति । १५ नागवरात् नागदत्त इति नाम दत्तं पुत्रस्य । तदा पद्मदत्तो वैरोट्याश्वशुरः श्रीआर्यनन्दिलक्षपणकैरेवमुक्त:-- स्वया स्ववध्यग्रे कथनीयम्, नागाश्रयं गतया त्वया नागा वक्तव्याः - भवद्भिर्लोकस्थानुग्रहः करणीयः कोऽपि न दंष्टव्यः । तत् सूरिवचनं श्वशुरेण तस्यै, तथा च नागेभ्यः कथितम् । तत्र गता च वैरोटथा एवमुच्चैर्जगौ -- २० साऽलिञ्जरपत्नी जीयाद् सोऽलिञ्जरो जीयात् " येनाहमपितृगृहाऽपि सपितृगृहा कृता, अनाथाऽपि सनाया जाता । " १ ग पुस्तके ' तत्क्षणमेव ' एतदधिकम् । २ क- ' सुस्था: । ३ ' बाँडो' इति गूर्जर भाषायाम् । ग - पुस्तके 'मम' इत्यत आरभ्य 'इति' एतस्पर्यन्तमधिकं विद्यते । ५ कखप्रत्योः 'वैरोट्या' इत्यत आरभ्य 'कर्तुं' एतत्पर्यस्तं न दृश्यते । ६ क --ख-तनुर्मध्ये' । ७ग - पुस्तके ' चिरं ' अधिकं विद्यते । ८ क- खप्रत्योः • नागदत्त इति नाम दतं पुत्रस्य' एतन्न दृश्यते । ९ ग' कर्तव्यः । १० क- 'येनाहमपि सपितृगृहा कृता । ११ ग जाता ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy