SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । प्रबन्धकोशेत्यपराह्वये २०५ [२४] ॥ श्रीवस्तुपालप्रवन्धः' । श्रीवस्तुपाल-तेजः-पालौ मन्त्रीश्वरावुभावास्ताम् । यौ भ्रातरौ प्रसिद्धौ, कीर्तनसङ्ख्यां तयोर्ब्रमः ॥१॥ पूर्व गर्जरधरित्रीमण्डनायां 'मण्डली'महानगर्या श्रीवस्तुपाल- ५ तेजःपालाद्या वसन्ति स्म । अन्यदा श्रीमत् पत्तन वास्तव्य प्राग्वाटा'ऽन्वयठक्कुरश्रीचण्डपात्मजठक्कुरश्रीचण्डप्रसादाङ्गजमन्त्रि- . श्रीसोमकुलावतंसठक्कुर श्रीआसराजनन्दनौ कुमारदेवीकुक्षिसरोवरराजहंसौ श्रीवस्तुपाल-तेजःपालौ श्री शत्रुञ्जय'-'गिरिनारा'दितीर्थयात्रायै प्रस्थितौ । 'हडालक' प्रामं गत्वा यावत् स्वां भूतिं चि- १० न्तयन्तस्तावल्क्षत्रयं जातं सर्वस्वम् । ततः 'सुराष्टा'त् स्खं सौस्थ्यमाकलय्य लक्षमेकमवन्यां निधातुं निशीथे महाश्वत्थतलं खानयामासतुः । तयोः खानयतोः कस्यापि प्राक्तनः कनकपूर्णः शौल्वः कल शो निरगात् । तमादाय श्रीवस्तुपालः तेजःपालजायां अनुपमादेवीं मान्यतया अपृच्छत्- क एतन्निधीयते । तयोक्तम्- १५ गिरिशिखरे एवैतदुच्चैः स्थाप्यते यथा प्रस्तुतनिधिवन्नान्यसाद्भवति । तत् श्रुत्वा श्रीवस्तुपालः तद्रव्यं श्री शत्रुञ्जयो'-'अयन्ता'दो अव्यययत् । कृतयात्रो व्यावृत्तो 'धवलक्व'पुरमगात् । । अत्रान्तरे महणदेवी नाम कन्यकुब्जेश्वरसुता जनकात् प्रसन्नाद् ‘गूर्जर'धरां कञ्चुलिकापदे लब्धां सुचिरं भुक्त्वा कालेन २० मृत्वा तस्यैव 'गूर्जर'देशस्य अधिष्ठात्री महर्द्धिय॑न्तरी जाता । सा १ अस्य सारांशः श्रीवस्तुपालचरित्ररूपकीर्तिकौमुदीप्रस्तावनायामाग्लभाषाय निबद्धोऽस्ति । २ आर्या । ३ ख-'पूर्वे'। ग-'एकदा'। ५ग-'चण्डपस्तदात्मज.' ६ ग-प्रसादस्तदङ्गज०'। ७ ग-'श्रीसोमस्तस्कुलावसंतमन्त्रि श्रीआसराजः तन्नन्दनी कुमरादेवी.' । ८ ग-'सर्व स्वं'। १ ताम्रमयः। १० ग-'अन्ययत्' । ११ ग-'महणलदेवी'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy