SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ २२ श्रीरत्न श्रावक " दश लिमयानि एवं द्वासप्ततिः । तत्रैकस्मिन् रत्नमये बिम्बे रत्नः स्वनामसाम्यादिव तुष्टो विलग्नः । इदमर्पय मे स्वामिनि ! येन तत्र स्थाने रोपयामीत्यम्बामूचे । अम्बाऽप्याह स्म - वत्सक ! तीर्थ मिदं महत् । आगमिष्यति शनैः शनैः कलिः । तत्र लोको हीन - ५ सवोऽलुब्धः पापकारी सर्वधर्मबाह्यो भावी । तदग्रतो रत्नं बिम्बं न छुटिष्यति । महत्याशातना भाविनी, ततः तस्मादिदमाश्मनं गृहाण | रत्नेन तथेत्यूरीकृतम् । उदितं च- मातः ! कथमिदं महन्मयाऽऽनेयम् ? | देव्योक्तम् - आमसूत्रतन्तुभिरेभिर्वेष्टय । इतचलमाने यत्र तु पश्चाद् विलोकयिष्यसि तत्रैव स्थास्यति । इत्य १० म्बिकागिरा चलितो रत्नो बिम्बं गृहीत्वा यावत् कियतीमपि भुवं पुरो याति तावद् विस्मितः पश्चादालोके किमम्बाऽऽगच्छति न वेति । तत्रैव तस्थौ बिम्बं उदुम्बरोपरि । न चलति स्थानान्मनुष्यलक्षैरपि । ततः परावृत्त्य द्वारस्य प्रासादस्य रचना कृता । साऽद्यापि तथैव तत्रैवास्ते । एवं प्रतिज्ञां सम्पूर्य रत्नः ससङ्घो 'रैवता'द् १५ व्याघुट्य 'शत्रुञ्जये' ऋषभं प्रणम्य अन्यान्यपि तीर्थानि वन्दित्वा 'नवल' पत्तनं प्रविष्टः । राजा स्वयमभ्यागतः । गृहे गृहे मङ्गलानि, साधर्मिक वात्सल्यानि ऋद्धिवृद्धि: । आचन्द्रार्के स्थायि यश ललौ । रत्नस्थापितं नेमिबिम्वमिदं यद् बन्धनानमास्तेऽधुना । तस्य तु स्तुतिरेवं प्राक् कविकृता -- १ २० न खानिमध्यादुदखानि सूत्रैर्नासूत्र टकैरुदटङ्कि नैव । अद्योति न द्योतनकैर्नवा है - रवाहि योऽमन्त्रि न सिद्धमन्त्रैः ॥ १ ॥ अनादिरव्यक्ततनूरभेषः, प्रभामयोऽनन्तबलः सुसिद्धः । तरीस्तरीतुं भविनां भवाब्धि, स नेमिनाथः कृपयाऽऽविरासीत् ॥२॥ V ॥ इति रत्न श्रावकप्रबन्धः ॥ २२ ॥ पश्चिम पश्ि १९८ १ 'उदम्बरोपरि द्वारस्य' इज्यधिको ग-पाठः । २ ग 'च प्रवर्तितानि । ३ इन्द्रबंशा (३) । र उपेन्द्रवज्मा । >
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy