SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८८ चतुर्विंशतिप्रबन्धे [२१ श्रीमदनवर्मदत्त्वा मन्त्रिभी राजवाक्यं दूतमुखेन भाणितम्-- यदि अर्थमीहसे तदाऽथ लाहि; भूमिं चेत् तर्हि युद्धामहे वयम् । मदनवर्मदेवाय ज्ञापितमत्र भवदागमनम् । तेन अस्मत्प्रभुणा उक्तम्- 'कबाडी' राजाऽर्थेन तर्पणीयः सः । सिद्धराजस्तल्लीलया विस्मितः षण्णवति कोटीः कनकस्यायाचीत् । दत्तास्ताः प्रधानैः । सद्यः देशः सुखं तस्थौ । तथापि पश्चान्न याति । तदा प्रधान णितम्-राजन्! अर्थो लब्धस्त्वया, कथमथ न प्रतिगच्छसि ? । 'सिद्धेशेन भणित मन्त्रिपुरः-तं लीलानिधिं भवत्प्रभु दिदृक्षे । तेऽप्येत्य मदनवर्माणमभणत्- अर्थेन तोषितः स क्लेशी राजा, परं भगति राजेन्द्र द्रष्टुमीहे । ततो मदनवर्मणा निगदितम्-तर्हि एतु सः । ततः सैन्य तथास्थमेव मुक्त्वा मितसैन्यस्तत्रोद्याने आगतः सिद्धराजा यत्र महाप्राकारस्थे सौधे मदनवर्माऽस्ति । प्राकाराद् बहिर्योधलक्षास्तिष्ठन्ति । प्रतोली यावदार्गस्य मध्ये अचीकथत् द्वास्थैः आगतमस्माभिः 'महोबक' प्रभुणा भणितम्-- जनचतुष्केण १५ सहागच्छत । आगतो मध्ये सिद्धराजः । यावत् पश्यति काञ्चन तोरणानि सप्तप्रवेशद्वाराणि अग्रे ददर्श रजतमहारजतमयीर्वापी:, 'नानादेशभाषाविचक्षणाः शशाङ्कमुखीविशालनितम्बस्थलास्तारुण्यपुण्यावयवाः स्त्रीः 'पणव-वेणु-वीणा-मृदङ्गादिकलासक्तं परिजनजनम् । स्फीतानि गीतानि शुश्राव । 'नन्दनो'द्यानाधिकमुद्यानं, हिमगृहाणि, हंससारसादीन् खगान् , उपकरणानि हैमानि, कदलीदलकोमलानि वसनानि, जनितानङ्गरागान् उत्तुङ्गान् पुष्पकरण्डांश्चैषत । एवं पश्यन् पश्यन् पुरः पुरो गच्छन् साक्षादिव मदनं मधुरे वयसि वर्तमानं मितमुक्ताफलप्रायभूषणं सर्वानलक्षणं काश्चनप्रभं मधुरखरं तामरसाक्षं तुङ्गाघ्राणं उपचितगात्रं , तथापि० याति' इत्यधिको ग-पाठः । २ ख-घ-सिद्धसेमभाणितं मन्त्रिपुरुहूतास्त'(१)। ३ ग-दर्शयथ' । । स्व-घ-'नामादेशवेश(ष भाषा' । ५ यादित्रविशेषः, नानुं नगारुं। ६ घ-'तुङ्गधोणं' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy