SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८६ चतुर्विशतिप्रबन्धे [२१ श्रीमदनवर्मततो दक्षिणापथे ' महाराष्ट्र - तिला '- कर्णाट '-' पाण्डया'दिराष्ट्राण्यसाधयत् । अनन्तं धनं सङ्घटितम् । ततो गूर्जर 'धरां प्रति व्याधुटत् । यावद् देशसीमसन्धौ सैन्यनिवेशं कृत्वा स्मितस्तावत् सायं एकदा महा सभायामुपविष्टोऽस्ति प्रत्यक्ष इव सुत्परिवृढः । तावत् कश्चिद् वैदेशिको भट्ट एत्याशीर्वादं भाणित्वा सभां दृष्ट्वाऽवादीदिदम् , यथा- अहो 'परमार'वंशधूमकेतोः श्रीसिद्धराजस्य सभा मदनवर्मण इव मनोविस्मयजननी । तदाकर्ण्य सिद्धन्द्रस्तमेव भैट्ट पुर उपवेश्य पप्रच्छ-भट्ट ! कोऽसौ मदनवर्मा ? क्क नगरे कं राज्यं करोति ? । भंट्टः प्राह-देव! पूर्वस्यां 'महोबकं' नाम १० पत्तनं स्फारम् । तत्र मदनवर्मा नाम पृथ्वीपालः प्राशस्त्यागी भोगी धर्मी नयी नल इव पुरूरवा इव वत्सराज इव पुनरवतीर्णः पृथ्व्याम् । तं राजानं तच्च पुरं यः खल नित्यं पश्यति सोऽपि वर्णयितुं न पारयति, केवलं पश्यन्नन्तर्मनसं मूक इव स्वादं तद्गुणं जानाति । अस्माकं वचसि प्रायो लोकस्य विश्वासो नास्ति, वावदू१५ कत्वात् ,परं प्रेषय कश्चित् परमाप्तं निज मन्त्रिणं शं येन स तामृद्धिं दृष्ट्वाऽत्रागल्स देवपादेभ्यो निवेदयति । एवं भाट्टी वाचमवधार्य सिद्धराजो मन्त्रिणमेकं कतिपयजनयुतं द्रष्टुं तत्र तेनैव भट्टेन सह प्राहेषीत् । गतौ तौ भट्ट-मन्त्रिणौ । 'महोबक'पत्तनं दर्शित भट्टेन मन्त्रिणा । दृष्ट्वा निर्विलम्ब उपराजमेत्य यथास्थितमभाणीत्अवधारय स्वामिन् ! गतस्तत्राहम् । दार्शतं भट्टेन तत् पत्तनम् । तदा वसन्तोत्सवस्तत्र प्रवर्तते । गीयन्ते वसन्ताऽऽन्दोलकादिरागैर्गीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः। मकरध्वजलक्षभ्रान्तिमुत्पादयन्तो विलसन्ति युवानः । क्रियन्ते प्रतिरथ्यं छण्टनानि १ क-घ-'महौं । २ इन्द्रः। ३ ग-'भद्र'। ४ ग-'भद्र'। ५ गभद्र' । ६ग-'भद्रः । ७ ग-पुरुषात्तमे। ८ ग-पृषिम्याम्'। ९ घ-"किवित्' । १० क'भद्रोकां'। ११ क- युक्तं'। ११ ग- भद्रेण' । १३ -घ-'भटेन प्राप्तः'। १४क-'वसन्तमासोत्सपः।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy