SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ iyo चतुर्विंशतिप्रबन्धे [विक्रम किं युधिष्ठिरोऽसि ? / विक्रमेणोक्तम्- राजानं युधिष्ठिरं मन्यते स, तस्मादन्यद् वक्तव्यम् / गच्छ कृष्ण ! मण्डलीक आगतोsस्तीति वद / गतः सः / विज्ञप्तं तत् / बलिरूचे-- मण्डलीकः किं रावणः / पुनरागतः कृष्णः / मण्डलीकश्चेत् किं रावण इति पृष्टोऽसि / विक्रमेणाभाणि- तर्हि गत्वा वद कुमार आगतोऽस्ति / गत्वा तथोक्तम् / बलिराह-किं कार्तिकेयः ? किंवा लक्ष्मणः ? किंवा पातालवासी नागपुत्रो धवलचन्द्रः ? किं वालिपुत्रोऽङ्गादो रामदूत इति ख्यातः ? / पुनरेहिरेयाहिरा कृष्णस्य / विक्रमेण पुनरभाणि-वदेस्त्वं चण्ठ आयातोऽस्ति / पुन१० र्गतः / बलिर्भणति- वण्ठश्चेत् किं हनूमान् ? / पुनः कृष्णो वागरितः / भणितं बलिवचः / पुनर्विक्रमः प्रोचे-गत्वा वद तलारक्ष आगतोऽस्ति / उक्तं तेन तत् तथा तत् / बलिर्जगाद-किं विक्रमकः ? / कृष्णेनैत्य पृष्टम्- किं विक्रमादित्यः ? / ओमि त्युक्तम् / बल्यादेशादुपबलि नीतः / पृष्टो बलिना .. रे विक्रम! 15 रत्नमूल्यं प्रष्टुमागतोऽसि ? / विक्रमादित्यो वदति-इत्थमेव / दन्द शितं रत्नम् / बलिर्बभाण-ईदृशानि अष्टाशीतिं सहस्राणि रत्नानि नित्यं युधिष्ठिरो निर्मूल्यानि अदत्त पात्रेभ्यः / तेषां मध्यादिदं अरु(ग?)लत् / विप्रेण लब्धम् / प्रायो भूमिं गतानि सर्वाणि रत्नानि, कालस्य बहुलत्वात् / ततो राजा युधिष्ठिर एव, त्वं कः / विक्रमे२० णोक्तम्-देव ! सत्यमेतत् 'तुष्ट इच्छामि ईटक्सम्पत्तियुधिष्ठिरस्य कुतः ? / बलिराह-दिग्जयधनानि तस्मै भ्रातृभिश्चतुर्भिराहतानि / पूर्व 'मरु(द)त्तनामा कार्पटिको दारिद्यमग्नो रुद्रमारराध / तेन तुष्टेन तस्मै स्ववाञ्छया 'कैलासा'सन्ना आमूलचूलं हेमरत्नमयी पूर्निष्पाद्य दत्ता / सा तेन भुक्ता / तस्मिन् मृते रुद्रेण पांशुवृष्टया 25 सा पिदधे / यदा युधिष्ठिरबान्धवः सहदेव उत्तरां दिशं साध १घ गच्छ वद'। 2 ख-'मेवेदं दर्शितं'। 3 घ-सन्तुष्टरसा (?)मि ईदृक् / ..घ-'चमकतनामा।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy