SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 150 चतुर्विंशतिप्रबन्धे [15 श्रीसातवाहन सम्राडवातरीः / तदेकस्तत्रत्यो व्यन्तरो वेत्ति / तेन मीने सङ्क्रम्य हसितं त्यया दृष्टम् / राजाऽऽह-हासस्य को भावः / ब्राह्मी वक्ति अयं भावः- अयं दानादाप्तर्द्धिः पुनर्दाने मन्दादरः / धिगात्मकार्यमूदं जीवलोकमिति / सातवाहनो जल्पति--तस्य न्यन्तरस्य मञ्चर्चया कि कार्यम् ? / ब्राड्म्याह - प्राग्भवेऽयं तवैव सखाऽभूत् / तेन कृपणत्वात् किमपि न दत्तम् , केवलं त्वरत्तमेव किंश्चिदनुमोदितम् / तेन पुण्येन व्यन्तरत्वे नावतीर्णोऽयम् / ततस्त्वयि हितार्थित्वमस्य / मां च त्वन्मन्त्रशक्तिसमाकृष्टिप्रत्यक्षा त्वन्मातृकल्पां जानाति / ततस्तथाऽहसदिति विद्धि / तवृत्तान्त. 1. ज्ञानादवनीशो वदान्यत्वं सुष्ठाददे / ब्राह्मीश्रीदत्तशम्दवेधरस सिद्धेरिन्छादानी मानी जैनः / इत्थङ्कारं नानाविधान्यवदातानि हालक्षितिपालस्य कियन्ति नाम वर्णयितुं पार्यन्ते ? / स्थापित बानेन 'गोदावरी'तीरे महालक्ष्मीः प्रासादे / अन्यान्यपि च यथार्ह दैवतानि निवेशितानि तत्तत्स्थानेषु / 15 राज्यं प्राज्यं चिरं भुखाने जगतीजानौ अन्यदा कश्चिद् दारु भारहारकः कस्यचिद् वाणिजस्य वीथौ प्रत्यहं चारुकाणि दारुण्याहृत्य विक्रीणीते स्म / दिनान्तरे च तस्मिन्ननुपेयुषि वणिजा तद्भगिनी पृष्टा--किमर्थ भवद्भाताऽद्य नागतो मीभ्याम् ? / तया बभणे श्रेष्ठिश्रेष्ठ ! मत्सोदर्यः स्वर्गिषु सम्प्रति प्रतिवसति / वणिगभणत्-- 20 कथमिव ? / साऽवदत्-कङ्कणबन्धादारभ्य विवाहप्रकरणे दिन-- चतुष्टयं नरः स्वनिष्विव वसन्तमात्मानं मन्यते, तदुत्सवालोकनकौतूहलात् / तच्चाकर्ण्य राजाऽप्याचन्तयत्-अहो अहं स्वर्गिषु किं न वसामि ? | चतुषु चतुर्ष दिनेषु अनवरतं विवाहोत्सवमय एव स्थास्यामि / इति विचार्य चातुर्वण्र्ये यां यां कन्यां युवति २५रूपशालिनी पश्यति शृणोति स्म च तां तां सोत्सवं पर्यणैषीत् / 1 ग- 'भूपोऽभूत्' / 2 'पुनः' इत्यधिको ग-पाठः / 3 घ-'लक्ष्मी प्रासादें / घ-चारपाणि'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy