SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये उत्तरओ हिमवंतो दाहिणओ 'सालिवाहणो राजा(या)। समभारभरकता तेण न पल्हत्थए पुहवी // 2 // तादृशं तस्य गर्वमीक्षमाणा महामन्त्रिणोऽन्योन्यं मन्त्रयामासु :-- नृपः श्रिय तरलितः / ततः -- जितश्चेत् पुरुषो लक्ष्म्या, हृतं लोकद्वयं ततः। 5 जिता चेत् पुरुषेणैषा, जित लोकद्वयं ततः // 1 // तस्मादस्य दुःखोत्पादनेन मदगदोच्छेदः कर्तुमर्हः / इत्यालोच्य राजानं व्यजिज्ञपन्-देव ! ललाटंतपतपनः काल. भोजनावसरो वर्तते / पादोऽवधार्यतां सौधाय / इत्युदित्वा सौधमानैषुः / तत्रापि मदात् स्तम्भादीनि कुट्टयति / ततो मन्त्रिभिः खरमुखं वीरोत्तंसं 10 छन्नीकृल्य राज्ञे उतम-देव ! खरमुखः सद्यो व्याधिना द्यामगमत् / अथ तच्छ्वणे क्षमापो दुःखाच्छोकान्मदमहासीत् / शोकात् तु वैकल्यमचकलत् / अथामात्यैर्विज्ञप्तम्-प्रजेश्वर ! विदेशादायातैर्मृतजीवनविद्याविदुरैः खरमुखो जीवितः / यद्यादेशः स्यात् तदा पदकमलयुगलतले लोन्यते / इत्युक्ते सुस्थो जातः / दृष्टः खरमुखः / 15 सुष्ठु तुष्टो राजा / एवं तस्योदयः / __ अन्यदाऽसौ 'गोदावरी'तीरे क्रीडति / तदेकमीनेन जलाद् बर्हिमुखं निष्कास्य हसितम् / भीतश्चमत्कृतश्च भूपः / रात्रौ ध्यानाकृष्टाऽऽयाता ब्राह्मी पृष्टा--देवि! मीनः किमर्थं हसति ? / माइम्याह-वत्स ! प्राग्भवे त्वं अत्रैव पुरे काष्ठभारहारक 20 आसीः / स च मध्याह्ने काष्ठकष्टार्जितधनकीतान् सक्तून् उष्णोदकविलोडितान् मासक्षपणिकऋषये मुदा ददे / तेन पुण्येन त्वं छाया-उत्तरतो हिमवान् दक्षिणतः सालिवाहनो राजा / समभारभराकान्ता तेन न पर्यस्यते पृथ्वी // 2 ग-सालवाहणराया' / 3 ग-'पन्थए' / / आर्श / 5 ख-ध-'तादृश्य' / 6 अनुष्टुप् /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy