SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे 15 मौसातवाहन. रितजिह्वोऽन्तीरं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः / पृष्टश्च शूद्रकेण-कस्त्वं किमर्थं चेत्थं लम्बितोऽसि ! ! तेनोक्तम्अहं मायासुरस्य कनिष्ठो भ्राता / स च मदनोन्मदिष्णुर्मदग्रजः 'प्रतिष्ठाना' धिपतेः सातवाहनस्य नृपतेर्महिषीं 'रिरंसुरपाहरत् सीतामिव देशवदना / सा च पतिव्रता तनेच्छति / तदनुप्रोक्तोऽप्रजन्मा-न युज्यते परदारापहरणं तव / विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिरंसया / कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः // 1 // इत्यादिवाग्भिनिषिद्धः क्रुद्धो मह्यं मायासुरोऽस्यां वटशाखायां 10 टङ्गित्वा मामित्थं व्यडम्बयत् / अहं च प्रसारितरसनः समुद्रान्तः सञ्चरतो जलचरादीनभ्यवहरन् प्राणयात्रां करोमि / इति श्रुत्वा शुद्रकोऽप्यभाणीत्--- अहं तस्यैव महीभतो भृत्यः शूद्रकनामा तामेव देवीमन्वेष्टुमागतोऽस्मि / तेनोक्तम्- एवं चेत् तर्हि मां मोचय यथाऽहं सह भूत्वा तं दर्शयामि तां च देवीम् / तेन स्वस्थान 15 परितो 'जातुषं दुर्ग कारितमस्ति / तच्च निरन्तरं प्रज्वलदेवास्ति / 'ततस्तदुल्लध्य तन्मध्ये प्रविश्य तं निपात्य देवी प्रत्याहर्तव्या / इत्याकर्ण्य शूद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि छित्त्वा तं पुरोधाय दैवतगणपरिवृतः प्रस्थाय प्राकारमुल्लड्थ्य तत्स्थानान्तः प्राविशत् / दैवतगणांश्वालोक्य मायासुरः स्वसैन्यं युद्धाय प्रजिघाय / तस्मिन् पञ्चतामञ्चिते स्वयं योद्धमुपतस्थौ / ततः क्रमेण शूद्रकस्तेनासिना तमवधीत् / ततो 'घण्टावलम्बि विमानमारोप्य देवी दैवतगणैः सह प्रस्थितः 'प्रतिष्ठान' प्रति / _इतश्च दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिातवान्-अहो मम न महादेवी, न च शूद्रकवीरः, न चापि तें। क- 'मायामुखस्य' / 2 ग- 'वान्छनपा०' / 3 रावणः / 4 अनुष्टुप् / 5 बया, 'टोगीने' इति भाषायाम् / 6 लाक्षामयम् / 7 ग-'ततो दुर्लक्ष्यं तन्मध्ये' / 8 मृत्यु गते / 9 घ- 'तस्थे' 10 घ-'विलम्बि०। 11 क-ख-'कृत्यमागत.' 12 - 'नापि च तौ'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy