SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 140 ___ चतुर्विशतिप्रबन्धे [15 श्रीसातवाहन सातवाहनो राज्येऽभिषिक्तः / प्रतिष्ठान' च निजनिजविभूतिपरिभूतवस्त्याकसाराभिधानं धवलगृह-देवगृह-हट्टपङ्क्ति-राजपथप्राकार-परिखादिभिः सुनिविष्टमजनिष्ट पत्तनम् / सातवाहनोऽपि क्रमेण दक्षिणापथमनृणं विधाय 'तापी'तीरपर्यन्तं चोत्तरापथं 5 साधयित्वा स्वकीयसंवत्सरं प्रावीवृतत् / जैनश्च समजनि / अचीकरच जनितजननयनशैन्यानि चैत्यानि पश्चाशद् वीरा अपि / प्रत्येक स्वस्वनामाङ्कितानि अन्तनगरं कारयाम्बभर्जिनभवनानि / परसमयलोकप्रसिद्ध सातवाहनचरित्रं शेषमपि किञ्चिदुच्यते-- श्रीसातवाहने क्षितिरक्षति सति पञ्चाशद् वीराः 'प्रतिष्ठान'१० नगरान्तस्तदा वसन्ति स्म, पञ्चाशनगराद् बहिः / इतश्च तत्रैव पुरे एकस्य द्विजस्य सूनुर्दोद्धरः शूद्रकाख्यः समजनि / स च युद्धश्रमं दर्पात् कुर्वाणः पित्रा स्वकुलानुचितमिदमिति प्रतिषिद्धोऽपि नास्थात्. / अन्येयुः सातवाहननृपतिर्बापलाखून्दलादिपुरान्तर्वर्तिवीरपञ्चाशदन्वितो द्विपञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन् दृष्टः पित्रा समं गच्छता द्वादशाब्ददेशीयेन शूद्रकेण / केनापि वीरेणाङ्गुलोचतुष्टयं केनचित् षडङ्गुलान्यपरेण त्वङ्गुलान्यष्टौ शिला भूमित उत्पाटिता, महीजानिना त्याजानु नीता / इल्यवलोक्य शूद्रका स्फूर्जदूर्जितमयादीत् / भो भो भवत्सु मध्ये किं शिलामिमां मस्तकं यावन्न कश्चिदुंद्ध मीष्टे ? / तेऽपि 'सेर्प्यमवादिषुर्यथा- त्वमेवोत्पाट्य यदि समर्थमन्योऽसि / शूद्रकस्तदाकर्ण्य तां शिलां वियति तथोच्छालयाञ्चकार, यथा दूरमूर्ध्वमगमत् / पुनरवादि शूद्रकेण-- यो भवत्सु अलम्भूष्णुः स खलु इमां निपतन्ती स्तभ्नातु / सातवाहनादिवीरैर्भयाद् भ्रान्तलोचनैरूचे स एव सानुनयम्- यथा भो महाबल ! रक्ष रक्ष अस्माकी२५ नान् प्राणान् इति / स पुनस्तां पतयालु तथा मुष्टिप्रहारेण १घ-'पदनम्। २क-'खुन्देलादि०', घ. खुदलादि०' / ग-'मही पतिना'। ग-दुद्धर्तु समर्थः। 5 ख-'तदर्थमवा०। 6 क ख-'अलकरिष्णुः' /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy