SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [११ श्रीहर्षकवि राज्ञी बलवती, लब्धप्रसरा, अविवेकिनी । मम मरणं यदि स्वामिमरणादर्वाग् भवेत् तदा धन्यता । प्रातश्वलितो मन्त्री स्वसदनात् । पथि गच्छन्तं 'पिण्याकं दृष्ट्वा तमजिप्रसिषत् । पुनः पुरो गतः । स्फुटितच नकपिटकमा लोक्य तददने मनोऽदधत् । तेन कुचेष्टा५ येनात्मनो विधिवैपरीत्यं निर्णीयोपराजं गत्वा व्यज्ञपत्- देव! अहं 'गङ्गा' जले मक्त्वा म्रिये यद्यादिशसि । राजाऽऽख्यत् -- यदि म्रियसे तदा सुखेन जीवामः । कर्णज्वरो निवर्तते । मन्त्री दूनः डुं हितवचनानाकर्णनम्, अनये वृत्तिः, प्रियेष्वपि द्वेषः, निजगुरुजनेऽप्यवज्ञा, मृत्योः किल पूर्वरूपाणि । आगतं राज्ञो मर१० णम् । राजानमापृच्छय गृहं गत्वा सर्वस्वं द्विजादिलोकाय प्रदाय भवविरक्तो 'जाह्नवी' जलमध्यं प्रविश्य कुलपुरोहितमाह-- दानं गृहाण | विप्रेणापि करः प्रसारितः । दत्तः स्पर्शपाषाणः । तेनोक्तम्- धिक् ते दानं यद् ग्रावाणं दत्से । इति क्रुद्धेनान्तरुदकं चिक्षिपे । सोऽश्मा गङ्गादेव्या ढले । मन्त्री जले मक्त्वा मृतः । राजाऽनाथो जातः । सुरत्राण आयातः । नगरे भाण्डं भाण्डेन १५ स्फुटितम् । राजा युद्धायाभिमुखमागात् । ८४०० एतावन्ति निस्वानानि निजले, परं एकस्यापि निस्वानस्वनं राजा न शृणोति । आपृच्छच्च तटस्थान् । तैर्बभणे - म्लेच्छधनुर्ध्वानेषु मग्नानि ध्वानान्तराणि । राजा हृदये ऽहारयत् । ततो न ज्ञायते किं हतो गतो मृतो वा । यवनैलता पूः ॥ ॥ इति श्रीहर्ष - विद्याधर - जयचन्द्र प्रबन्धः ॥ ११ ॥ ११८ २० १ तिलकल्कम्, 'खोळ' इति भाषायाम् । २ क- 'व्यज्ञपयत्' । ३ घ '८४०० , निस्वानस्वनं । ४ ख ग 'हारयामास' | ५ 'गङ्गानलेऽपतत्' इत्यधिको ग-पाठः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy