SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे " श्रीहर्षकविइदं श्रुत्वा श्रीहर्षो निष्क्रोध इवासीत् । भूपेनोक्तम्-~~अत्र श्रीहर्षे इदमेव वक्तुमर्हम् । प्रतिवादीनां कोऽर्थः । । सम्यगवसर'मज्ञासीः । श्रीहीरवैरिनित्यर्थः । अन्योन्यं गाढालिङ्गनमचीकरद् द्वयोरपि वसुन्धरासुधांशुः । विस्तरेण सौधमानीय माङ्गलिकानि कारयित्वा गृहं प्रति प्रहितः । लक्षसङ्ख्यानि हेमानि ददिरे । निश्चिन्तीकृत्यैकदा मुदा नृपेणोक्तः कवीशः- वादीन्द्र ! किञ्चित् प्रबन्धरत्नं कुरु । ततो नैषधं महाकाव्यं बद्धं दिव्यरसं महागूढव्यङ्गयभारसारं राज्ञे दर्शितम् । राज्ञोचे- सुष्टुतममिदम् , परं 'काश्मीरं' व्रज । तत्रत्यपण्डितेभ्यो दर्शय । भारतहिस्ते च १० मुञ्च । भारती च तत्र पीठे स्वयं साक्षाद् वसति । असत्यं प्रबन्धं हस्ते न्यस्तमवकरनिकरामिव दूरे क्षिपति, सत्यं तु मूर्धधूननपूर्व सुष्ठ इत्युरीकरोति । उपरितः पुष्पाणि पतन्ति । श्रीहर्षो राजदत्तार्थनिष्पन्नविपुलसामग्रीकः 'काश्मीरा'नगमत् । सरस्वती हस्ते पुस्तकं न्यास्थत् । सरस्वत्या दूरे क्षिप्त तत् । श्रीहर्षेण १५ कथितम्---- किं जरतीति विकलाऽसि यन्मदुक्तमपि प्रबन्धमितर प्रबन्धमिव मन्यसे ? । भारत्याह-- भो परमर्मभाषक ! न स्मरसि यदत्रोक्तं त्वया एकादशे सर्गे चतुःषष्टितमे काव्ये'देवी पवित्रितचतुर्भुजवामभागा वागालपत् पुनरिमां गरिमाभिरामाम् । २. 'एतस्य निष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥१॥' एवं मां विष्णुपत्नीत्वेन प्रकाश्य लोके रूढं कन्यात्व लुप्तवानसि, ततो मया पुस्तकं क्षिप्तम् । याचको वञ्चको ब्याधिः, पश्चत्वं मर्मभाषकः । २५ योगिनामप्यमी पश्च, प्रायेणोद्वेगहेतवः ॥१॥ घ- केवलं काश्मीरं'। २ ग.. अस्यारि निष्कृप० । ३ वसन्त । भमुष्टप् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy