SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ १० श्री हेमचन्द्रसूरि L कृतप्रणामः सन् राज्ञाऽऽलापि - भो ! विजनमस्ति इति भाष्यसे 1.. त्वमस्माकं कुलक्रमागतः सेवकः । सद्यो व्रज । 'गुर्जरे 'श्वरघातको भूत्वा व्यापादय । लक्षत्रयं हेम्नां दास्ये अथ स व्याघ्रराजाख्यो बभाषे - देव ! हनिष्याम्येव तं राजानम् । मा स्म संशय कृथाः स्वामिन्! । ततस्तद्वचः श्रुत्वा तुष्टः 'शाकम्भरीश्वरः सधो हेमलक्षत्रय बदरकांस्तद्गृहायाचीचलत् । व्याघ्रराजं चाप्राक्षीत् कदा केनोपायेन तं हनिष्यसि ? । व्याघ्रराजोऽवादीत् नाथ ! अथ रविवारो वर्तते । आगन्तुकामे सोमबारे क्वचनावसरं लब्ध्वा I हनिष्यामि । उपायस्तु भरटकरूपं करिष्यामि । राजा तु 'कर्ण१० मेरु' प्रासादे आयाति सोमवारे ध्रुवम् । देवं नत्वा व्यावर्तमानायास्मै बाह्याङ्गणे शेषादानमित्रेण पुष्पकलम्बकमुत्पाटयिष्यामि । तत्र धृतया कैर्तिकया कैङ्कमय्या घातयिष्यामि । अङ्गीकृतसाहसानां न किश्चिदपि दुष्करम् । अहं इतश्चेत् तत्र तदा मन्मानुषाणामुपरि कृपा करणीया । उद्धृतश्चेदहं तदा जितं जितम् । एवं व्याघ्र - १५ राजेन निगदिते आनाकेन वीटकं दत्तम् । विसृष्टोऽसौ । तत् सर्व सावधानतया स्तम्भान्तरितया मया श्रुतम् । राज्ञि शुद्धान्ते गतेऽहं त्वदंहिसेवार्थ मायाता । तस्मान्मा मनो मयि क्रोधकरमलितं कार्षीः । एतद्दासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति - लब्धं शत्रुगृहमर्म । यतिष्येऽतः कार्यकरणाय । इति परामृशन् दासीम२० भाषत - याहि मृषाभाषिणि ! । कः स्त्रीवचसि विश्वास : ? । श्रूयते यन्न शास्त्रेषु, तल्लोकेऽपि न दृश्यते । तत् कल्पयन्ति लाक्ष्यो, जल्पन्ति स्थापयन्ति च ॥ १॥ * इत्यादि भाषित्वा तां व्यस्राक्षीत् । स्वयं तु चतुरांश्चतुरो याम - लिकानुपचौलुक्यं प्रास्थापयत् । विज्ञप्त्या चाज्ञापपत्- सावधानैः २५ स्थेयम् । इत्थं इत्थं स्वामिपादानामुपरि शत्रुकृतं कपटं वर्तते । भरटकश्चिन्तनीयः । चौलुक्यः सावधानस्तस्थौ । सोमबारे गतो १ ----'वारे भुवम्' । २ घ 'कर्चरितया' । ३ पक्षिविशेष० । अनुष्टुप् । १०४ M
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy