________________
योगदृष्टिसमुच्चयः
परिभव इत्यर्थः । किमित्याह-जिह्वाच्छेदाधिको मतः तथाविधप्रत्यपायभावेन
॥ १४१ ॥
किञ्च
कुदृष्ट्यादिवन्नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारखच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ १४२॥
कुदृष्ट्यादिवत्=कुत्स्यमित्यादि, नो सन्तो=मुनयो, भाषन्ते क्वचित् । कथं तर्हि भाषन्त इत्याह-निश्चितम् =असन्दिग्धं, सारवच्चैव=नापार्थकम् किन्तु सत्त्वार्थकृत्=परार्थकरणशीलं सदा भाषन्ते ॥१४२॥
उपसंहरन्नाह -
निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्राऽन्धकल्पानां विवादेन न किञ्चन ॥१४३॥
५७
निश्चयोऽतीन्द्रियार्थस्य = सर्वज्ञादेः, योगिज्ञानादृते न च तत एव तत्सिद्धेः, अतोऽपि कारणाद् अत्र = सर्वज्ञाऽधिकारे, अन्धकल्पानां= विशेषतस्तदतत्त्वदर्शिनां, विवादेन न किञ्चन = सच्चित्तनाशफलेन ॥१४३॥
न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः ।
न चातो निश्चयः सम्यगन्यत्राऽप्याह धीधनः ॥१४४॥
न चानुमानविषयो=न च युक्तिगोचरः, एषोऽर्थः = सर्वज्ञविशेषलक्षणः, तत्त्वतो मतः=परमार्थेनेष्टः । न चातो=अनुमानात्, निश्चयः सम्यगन्यत्रापि= सामान्यार्थे आह धीधनः = स भर्तृहरिः ॥१४४॥
किमाहेत्याह
५८
यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपद्यते ॥१४५॥
योगदृष्टिसंग्रह
यत्नेनानुमितोऽप्यर्थो=अन्वयाद्यनुसारेण, कुशलैरनुमातृभिः=अन्वयादिज्ञैः, अभियुक्ततरैरन्यैः = अन्वयादिज्ञैरेव । अन्यथैवोपपाद्यते तथाऽ सिद्ध्यादिप्रकारेण ॥ १४५ ॥
अभ्युच्चयमाह
ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥१४६॥
ज्ञायेरन् हेतुवादेन=अनुमानवादेन, पदार्था यद्यतीन्द्रियाः=सर्वज्ञादयः, कालेनैतावता प्राज्ञैः=तार्किकैः कृतः स्यात्तेषु निश्चयो =अवगम इति
।। १४६ ।।
न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ॥ १४७॥
न चैतदेवं यद्=येन कारणेन तस्माच्छुष्कतर्कग्रहो महान् = अतिरौद्रः । मिथ्याभिमानहेतुत्वात् कारणात् त्याज्य एव मुमुक्षुभिः = मोक्तुमिच्छुभिः ॥ १४७॥
किञ्च
ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्त धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ? ॥१४८॥
ग्रहः सर्वत्र = वस्तुनि, तत्त्वेन परमार्थेन, मुमुक्षूणामसङ्गतो=अयुक्तः ।