SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ नो चेद् रे किं ततोऽत्यन्त-मल्पं धर्मं करोम्यहम् । यत् करोमि ततो नूनं करोमि यन्न तन्महत् ॥७९॥ मया न क्रियते धर्मो यो यस्तं तं स्मराम्यहम् । कदा कं च कथं कुर्वे भावनामित्थमाश्रये ॥८॥ कार्याणां करणे ह्यत्र सोपानत्रयमुच्यते । प्रथमं कल्पनाऽऽधेया कार्यस्येष्टस्य चेतसि ॥८॥ द्वितीयं तस्य कार्यस्य योजना स्पष्टताऽन्विता । कार्यकारणसामर्थ्य स्वयंविश्वासपूर्विका ॥८२॥ तृतीयञ्च प्रयत्नस्स्यात् स्वकीयक्षमतानुगः । अविश्रान्तो नवोत्साह-संचारी समयान्वितः ॥८३॥ एवं क्रमं समाश्रित्य यः कार्येषु प्रवर्तते । साफल्यसुमनांस्यस्य म्लायन्ति नैव कर्हिचित् ॥८४॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy