SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५८ दुःखानां परिहारार्थं कर्मणां वृद्धिकारिणाम् । अभिप्रायादिकं जित्वा सौख्यमुत्तममर्जयेत् ॥४९॥ बाह्यानां नैव केषाञ्चित् संयोगानां विवर्तनम् । कर्तुं शक्यं तथात्वे तु विश्वं स्यादव्यवस्थितम् ॥५०॥ अनिष्टं यदपि प्राप्तं तत् पापोदयसंभवम् । कथंकारं भवेदत्र पापानां परिवर्तनम् ॥५१॥ कर्मणां संक्रमोऽप्यस्ति महाग्रन्थेषु दर्शितः । अस्मदादिकजीवानां संक्रमोऽयं कथं भवेत् ॥५२॥ पदार्थानां मनुष्याणां स्वभावैरपि वेदनाः । जायन्ते तत्र किं तेषां शक्याऽस्ति परिवर्तना ॥५३॥ सर्वेषामेव सर्वत्र स्थितानां परिवर्तने । गौरवं, लाघवं तु स्याद् आत्मनः परिवर्तने ॥५४॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy