SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कर्मणो रसमन्दत्वे स्थितिश्शक्ता न बाधितुम् । रसेनैव हि नव्यानां कर्मणां सुदृढा स्थितिः ॥४३॥ प्रयत्नो बध्यमानानां कर्मणां रसवारणे । कार्यों मुख्यतया सोऽयं भावशुद्ध्या च जायते ॥४४॥ न नाम कर्मणां बन्धस्सर्वथाऽत्र निरुध्यते । शक्तिस्तत्कर्मणां किन्तु यथाशक्यं निरास्यते ॥४५॥ बध्यमानं ततः कर्म रसैर्मन्दं यथा भवेत् । त्रयाणामन्यबन्धानां तथा शक्तिर्विभज्यते ॥४६॥ अभिप्रायादिनिष्पन्नः कर्म-संस्कार-संगतः । जेयोऽस्ति रसबन्धोऽयं मूले नष्टे कुतो भयम् ॥४७॥ वस्तुतस्तु त्रयं ह्येतद् मोहनीयरसोदयात् । प्रभवत्येतदापन्नो रसबन्धो नवो नवः ॥४८॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy