SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५४ आकर्षो योऽनुकूलेषु प्रतिकूलेषु त्रस्तता । तदर्थघटनं नाना- विचाराणां प्रसूतिकृत् ॥३७॥ व्यक्तेश्च वस्तुनो नाम-ग्राहं संग्रह - निग्रहे । भृशं चित्तप्रवाहो यस्स प्रतिभाव उच्यते ॥३८॥ तत्र तत्र प्रसंगेषु तथा चित्तप्रवाहिता । प्रतिभावः प्रतिव्यक्ति प्रतिवस्तु च भिद्यते ॥ ३९ ॥ ततो निर्मीयते वाणी तस्संजायते क्रिया । आहत्य प्रतिभावेभ्यो जाता तेन प्रतिक्रिया ॥४०॥ रसे बन्धस्थितौ चैव कर्मणां प्रतिभावतः । प्रतिक्रियाकृतो बन्धः प्रदेशे प्रकृतावपि ॥४१॥ रसस्येव स्थितेर्बन्धः प्रतिभावाद् भवन्नपि । रसस्येवात्मनः शक्तौ बाधाकृन्न विशेषतः ॥४२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy