SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आयातप्रतिकारार्थं नाल्पयत्नो भवाम्यहम् । इत्यर्थघटनापन्नो जीवस्स्यात् प्रतिभाववान् ॥३१॥ मतिज्ञानस्वरूपेण संज्ञाऽस्ति दीर्घकालिकी । संटंकोऽत्र भवत्यस्यास्सुखदुःखसमाश्रितः ॥३२॥ अल्पशब्दाद् यथा सूत्राद् वृत्तिकारा महर्षयः । महार्थघटनां नव्यां योजयन्ति विशारदाः ॥३३॥ यथालब्धात् तथा जीवो विषयात् कर्मणाऽऽतुरः । घटयन् चेतसो भावान् भवभ्रमणभाग् भवेत् ॥३४॥ अर्थो ह्यध्यवसायोऽस्ति घटयन् तं ह्यनेकधा । यान् यान् भावानुपेयात्तान् प्रतिभावान् विजानत ॥३५॥ अनुकूलत्वधीश्चित्ते प्रतिकूलत्वधीरपि । वर्तते साऽस्त्यभिप्रायो विषयासंगनिर्मितः ॥३६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy