SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४४ द्रव्यपर्यवतः पूर्णं नेन्द्रियैरवगम्यते । तथात्वे केवलज्ञानेऽतिप्रसंगो भवेत् खलु ॥७॥ अप्रत्यक्षस्थितस्यापि ग्रहणं नैव संभवेत् । साक्षात् संपर्कमायातं गृह्यतेऽदूरवर्ति च ॥८॥ द्रव्यं यावद्गुणं प्राप्तं बोधस्तावद्गुणो भवेत् । भवेदल्पगुणो बोधो नातिबोध: कदाचन ॥ ९ ॥ भित्त्यादिर्जडसामग्री नास्ति बोधाय सक्षमा । ज्ञानं हि चेतनाजन्यं जीवस्यैव प्रजायते ॥ १०॥ शब्दानामर्थसंकेतः श्रुतज्ञानेन गम्यते । वातावरणतो जन्म-जाताद् व्याकरणादिकैः ॥११॥ नैतदर्हा जडास्सन्ति ग्राहकत्ववियोगतः । मतिज्ञाने श्रुतज्ञानेऽयं तावद्विषयग्रहः ॥१२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy