SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः विषयग्रहणं तत्र स्वाभिप्रायस्य योजनम् । तदर्थघटनञ्चैव भाव्यमानत्वलक्षणम् ॥१॥ मतिज्ञानं श्रुतज्ञानं यथास्वं बोधदायकम् । ज्ञानावरणकृत्कर्म-क्षयोपशमनिर्मितम् ॥२॥ इन्द्रियैर्मुख्यतो ज्ञानं मतिज्ञानेन जायते । वस्तुनो गुणधर्माणाम्-आंशिकावगमात्मकम् ॥३॥ त्वचा जिह्वा तथा नासा नेत्रे कर्णावितीन्द्रियैः । निवृत्तिः करणं लब्धिश्चोपयोग इति स्थितैः ॥४॥ युग्मम् उपयोगस्त्विह ज्ञेय-स्तत्तदिन्द्रियगोचरः । चक्षाह्यं यथा रूपं न च स्पर्शरसादिकम् ॥५॥ सत्यपि जीवचैतन्ये नेन्द्रियाणि स्वभावतः । स्वकीयविषयादन्यत् संविदन्ति कदाचन ॥६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy