SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ न काचिदप्यवस्थाऽस्ति भवेऽनादौ किलात्मनः । भाव्यमानत्ववैकल्यं यत्रैतत् समपद्यत ॥३७॥ कारणं भाव्यमानत्वं संस्कारास्तस्य निर्मितिः । दृढयन्ति तथाप्यत्र संस्कारा भाव्यमानताम् ॥३८॥ यदि कश्चिच्छुभोऽपि स्याद् भाव्यमानत्वगोचरः । संस्कारोऽपि तदा तस्य शुभ एव प्रवर्तते ॥३९॥ शुभेन भाव्यमानत्वं शुभं संस्कारसर्जनम् । एतदद्वयं हि दुष्टानां कर्मणामेकवारणम् ॥४०॥ यथाप्रवृत्तकरणात् कर्ममांद्ये प्रवर्तिते । क्रमोऽयं संभवत्येव जीवस्य योग्यतावशाद् ॥४१॥ उत्तमानां निमित्तानां लाभाद्धि भाव्यमानता । उत्तमत्वं दधात्येव पात्रं क्षीरभृतं यथा ॥४२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy