SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः अनाद्यनन्तसंसारे भ्राम्यतां दुःखपूर्वकम् । जीवानां विषये मुख्यं नियमत्रयमुच्यते ॥१॥ असंख्यातस्वरूपेण भवत्येव प्रतिक्षणम् । निमित्तानामुपस्थानं नियमः प्रथमोऽस्त्ययम् ॥२॥ व्यक्तिवस्तुप्रसङ्गायै-निमित्तैरभिभूतता । आत्मनि संभवत्येव द्वितीयो नियमोऽस्त्ययम् ॥३॥ तैस्तैः प्रभावितो जीवो प्रतिभावाश्रयो भवेत् । प्रतिक्रियां तथा दद्याद् नियमोऽयं तृतीयकः ॥४॥ स्थावरेषु निमित्तानां का नाम समुपस्थितिः । इति प्रश्ने विचार्यन्तां प्रकृतिर्मानवा अपि ॥५॥ पृथिव्यां भूमिकंपादिर्बाधा नैसर्गिकी भवेत् । कूपादिखननाद्वाधा भवेन् मानवनिर्मिता ॥६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy