SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ यथा कर्मोदयाल्लब्धः कायो भिन्नोऽस्ति कर्मतः । तथा सापेक्षभावेन संस्काराः कर्मतः पृथक् ॥४९॥ मोहनीयोदयावस्था-रूपां हि ममतां यथा । स्वातन्त्र्येणैव संस्कार-रूपामाहुर्मनीषिणः ॥५०॥ ममतायाः परित्यागस्योपदेशोऽपि दीयते । तत्र संस्कारनाशस्य मुख्यता न तु कर्मणः ॥५१॥ ननु संस्कारनाशेन कर्मनाशो भवेन्न वा ? । भवेच्चेत्तर्हि कर्मैव बाध्यं किं तस्य चिन्तया ॥५२॥ न भवेच्चेत्ततो व्यर्थं संस्काराणां विसर्जनम् । तत्संस्कारपरित्याग-कथयाऽलं विचित्रया ॥५३॥ श्रूयतामत्र संस्कार: कार्यरूपो निगद्यते । कर्मणां कारणत्वञ्च तयोर्नैकत्वसाधकम् ॥५४॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy