SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १२ अपेक्षाभंगतो दुःखं दुःखं चाशाविनाशनात् । लाभस्याभावतो दुःखं दुःखं लब्धस्य हानित: ॥३१॥ दुःखं कार्येषु नैष्फल्यं दुःखं चाक्षमता कृतौ । कार्याणां यशसश्चौर्ये दुःखं दुःखं च दुर्यशः ॥३२॥ परेण वंचनाद् दुःखं दुःखं स्पर्धापराभवः । स्वमानहानतो दुःखं दुःखं केनापि तर्जनाद् ॥३३॥ रोगस्योत्पादनाद् दुःखं दुःखं देहबलक्षयात् । क्षुत्तृषाऽपूरणाद् दुःखं दुःखं श्रान्तिर्निरन्तरम् ॥३४॥ दुःखं परैः कृतोपेक्षा दुःखं दैन्यं दरिद्रता । पारतंत्र्यं परं दुःखं दुःखं क्लेशः परस्परम् ॥३५॥ दुःखमात्मीयलोकानां वियोगः शठता क्षयः । दुःखं च प्रत्यनीकानां प्रशंसाऽभ्युदयः सुखम् ॥३६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy