SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कर्मप्राबल्यनाशाय यदा यच्चिन्तयेन्मनः । स्वभूमिकानुसारेण सद्विचार: स कीर्तितः ॥२५॥ मिथ्यात्वे यद्यपि सम्यग्-विचाराणां न हेतुता । मन्दत्वनिष्ठहेतुत्वा-वच्छिन्ने न विरुध्यते ॥२६॥ अकषायवशित्वेन विषयासक्तिमान्द्यतः । अज्ञानोपरमात् कार्यं मनोयोगप्रवर्तनम् ॥२७॥ दु:खं द्वेषश्च चित्तस्य प्रवाहद्वयमुद्धतम् । आर्तं रौद्रं च तद्ध्यानं ध्रुवं जीवविडम्बनम् ॥२८॥ अनिच्छाविषयं स्वास्थ्य-हारकं द्वेषकारकम् । दुःखमेव हि संसार-मूलं मोहनिबन्धनम् ॥२९॥ दुःखं चित्तस्य वैक्लव्यं दुःखं चित्तस्य भग्नता । दःखं चित्तस्य विद्धत्वं दुःखं चित्तस्य बाधनम् ॥३०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy