SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः निःस्पृहा मे प्रसीदन्तु तातपादा मुनीश्वराः । तेषामेवाभिधानेन ग्रन्थे नव्ये विनिर्मिते ॥१॥ स्पष्टमुच्चारकः सम्यक्-प्रेरको मूलगामुकः । श्रीसंवेगरतिग्रन्थो मत्तातेनैव साम्यवान् ॥२॥ त्यक्त्वा नि:सारसंसारं नैको दीक्षां समाश्रयत् । मदबन्धुं मां च दीक्षाया मार्गेऽप्यस्थापयत् महान् ॥३॥ रामचन्द्रप्रभोः शिष्य-पदं प्रादात् स्वपुत्रयोः । न स्वकीयस्य शिष्यत्वं ददौ निर्ग्रन्थशेखरः ॥४॥ अभ्यास: कारितः सर्वः सेवा नानेन स्वीकृता । मेघो हि पृथिवीं दत्ते नादत्तेऽस्यास्तु किञ्चन ॥५॥ वैराग्यरतिनामाऽस्ति ग्रन्थः श्रीमद्यशःकृतिः । प्रशमरतिनामाऽपि ग्रन्थो वाचकनिर्मितः ॥६॥ १२८ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy