SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२२ यावत् कर्मक्षयो नास्ति तावद् दुःखं प्रवर्तते । संजाते कर्मनाशे तु कुतो दुःखपरम्परा ॥५५॥ शरीरं लालितं नित्यं दुःखकाले प्रकम्पते । दृढेन मनसा शिक्षाम् - आपन्नं तु न खिद्यते ॥५६॥ क्रीडायुद्धादिदृष्टान्तात् कायः सहनतत्परः । स्वसंकल्पोपमानेन भवेद् दुःखेऽपि सौख्यवान् ॥५७॥ सह्यते यन्न दुःखं तद् दुर्बलत्वं मनःस्थितेः । मनसः सत्त्वशालित्वं निर्मातव्यं सुखेच्छुना ॥५८॥ श्रीवीरभगवानर्हन् यावद् द्वादशवर्षकम् । उपसर्गान्निरुच्चारं सहित्वा तीर्थपोऽभवत् ॥५९॥ व्याघ्रीदन्तैर्नष्टदेहो महासाधुः सुकोशलः । आत्मैकध्यानवान् यातो मोक्षमानन्दसागरम् ॥६०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy