SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्वीकुर्यामहमेतानि ममातीतोत्थितान्यरम् । मया कृतस्य भोक्तव्यं फलं ननं मयाऽखिलम् ॥४९॥ कर्माणि मम नश्यन्ति सहमानोऽस्मि चेदहम् । आत्मनो भारमुक्तत्वं चाविर्भवति सुन्दरम् ॥५०॥ मय्यभ्यागतदुःखेभ्यो-ऽन्यानि दुःखानि भूरिशः । सन्ति तैविधुरोऽस्मीति भाग्यमेवास्ति जागृतम् ॥५१॥ अप्राप्तसौख्यचिन्ताभि-दु:खं जायेत यादृशम् । अप्राप्तदुःखचिन्ताभिस्सुखं जायेत तादृशम् ॥५२॥ दुःखे दुःखाधिकं पश्येद्-इत्येतद् युक्तिमद् वचः । अनावृत्तपदे दग्धो पंगुं दृष्ट्वाऽभवत् सुखी ॥५३॥ मरौ गतो रजोराशे-रन्यत् किं लप्स्यते ननु । भवे जातोऽपि दुःखानि विहायान्यत् किमाप्नुयात् ? ॥५४॥ १२० श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy