SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०८ ननु संगीतमास्वाद्य दृष्ट्वा पुष्पादिसुन्दरम् । आस्वाद्य मधुरान्नं च स्वतंत्रोऽनुभवः सुखम् ॥१३॥ तथा कंटकवेधेन क्षुधाजागरणेन च । रोगादिसंकटे दुःखं स्वातंत्र्यादनुभूयते ॥१४॥ यद् यथाऽस्ति तथा तस्य वेदने विकृतिः कुतः । तथात्वे सति सर्वज्ञो विकृत्या दूषितो भवेत् ॥१५॥ अत्रोच्यते चेतनाया निमित्तैरनुवर्तिता । कर्मविक्षोभिताऽवस्था सुखे दुःखे च दृश्यते ॥ १६ ॥ काचे रंगांचिते नेत्रै - र्लोकिते पारदर्शिनि । अतथास्थमपि रूपं तथात्वेन विलोक्यते ॥ १७ ॥ नेत्रयोरत्र को दोषो दोषोऽस्ति रंगसंगतेः । जीवस्यास्तीह को दोषो दोषो मोहस्य केवलम् ॥१८॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy