SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०० अष्टादशसहस्त्रेषु शीलांगेषु समर्पिताः । श्रमणा दर्शनादेव पापानामपहारकाः ॥६७॥ तेषामाज्ञैकनिष्ठानामनघाचरणावताम् । निःस्पृहाणां कृपार्द्राणां शृणुयाद् वाचमुत्तमाम् ॥६८॥ मुनीनां सिद्धधर्माणां संगमः सेवना स्तवः । अपूर्वलाभकारित्वादवन्ध्यं मुक्तिकारणम् ॥६७॥ वसन्ति हृदये येषां साधवो धर्मकर्मठाः । तेषामज्ञानजाद् दुःखा-न्न क्वचिद् वर्तते भयम् ॥७०॥ प्रेरणाद् बोधदानाच्च वासकत्वाच्छुभैर्गुणैः । संशयच्छेदकत्वाच्च साधवस्स्युस्सहायकाः ॥ ७१ ॥ साधूनां विनये निष्ठः साधूनात्मनिवेदकः । साधुसम्बोधितो धन्यस्साधुभिः संस्कृतो भवेत् ॥७२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy