SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८४ आत्माऽस्ति सन्ति कर्माणि कर्मबद्धोऽस्मि चाप्यहम् । कर्मणां फलभागस्मि कर्मनाशेऽस्मि च क्षमः ॥१९॥ तस्य हेतुश्च धर्मोऽस्ति कर्ममोक्षोऽस्ति मे ततः । इत्येवं बोधमापन्नः समर्थः कर्मनिग्रहे ॥ २० ॥ युग्मम् आगमा वृत्तयस्तेषां प्रामुख्याद् बोधदायकाः । तदर्हाः श्रमणा एव व्रतानां पूर्णसाधकाः ॥२१॥ एतैरभ्यस्तसच्छास्त्रैः परमार्थविशारदैः । निर्मिता बहवो ग्रन्थाः स्वाध्यायेषूपयोगिनः ॥२२॥ संवेगरंगशालायाः शक्तिः केनोपवर्ण्यते । प्रगाढभवरागस्य समुच्छेदविधायिनी ॥२३॥ समरादित्यवार्ताया रसो येनान्वभूयत । क्लेशावेशवशित्वेन सर्वथाऽसौ व्यमुच्यत ॥२४॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy