________________
गा.-९७
बन्धशतकप्रकरणम्
द्विकजातिपञ्चकौदारिकद्विकतैजसकार्मणादिवर्जसंस्थानसंहननदशकवर्णादिचतुष्कागुरुलघूपघातपराघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतिसप्रतिपक्षत्रसबादरपर्याप्तप्रत्येकस्थिरशुभानि दुर्भगदुःस्वरानादेयायश:कीर्तिनिर्माणनीचैर्गोत्राणि चेत्येतासां षट्षष्टिप्रकृतीनां कदम्बकं प्रदेशोत्कटमुत्कृष्टप्रदेशं मिथ्यादृष्टिरेव करोति । तथाहि-मनुष्यद्विकपञ्चेन्द्रियजात्यौदारिकद्विकतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातपराघातोच्छासत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभायश:कीर्तिनिर्माणलक्षणा पञ्चविंशतिप्रकृतीर्मुक्त्वा शेषा एकचत्वारिंशत्सम्यग्दृष्टेर्बन्ध एव नागच्छन्ति । सास्वादनस्तु काश्चिद् बध्नाति, परं तस्योत्कृष्टयोगो न लक्ष्यते । अत एता एकचत्वारिंशत्प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टयोगे वर्तमानौ मूलप्रकृतीनां नामोत्तरप्रकृतीनां च यथासम्भवमल्पतरबन्धक उत्कृष्टप्रदेशाः करोति । अपि चोक्तस्वरूपाः पञ्चविंशतिप्रकृतयः सम्यग्दृष्टेबन्धे समागच्छन्ति । तास्वपि मध्ये औदारिकतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातबादरप्रत्येकास्थिराशुभायश:कीर्तिनिर्माणलक्षणानां पञ्चदशप्रकृतीनामपर्याप्तैकेन्द्रिययोग्यो नाम्नस्त्रयोविंशतिप्रकृतिनिष्पन्नो यः पूर्वं दर्शितो बन्धस्तेनैव सह बध्यमानानामुत्कृष्टः प्रदेशबन्धो लभ्यते, नोत्तरैः पञ्चविंशत्यादिबन्धैर्भागबाहुल्यात् । शेषाणां तु मनुष्यद्विकपञ्चेन्द्रियजात्यौदारिकाङ्गोपाङ्गपराघातोच्छासत्रसपर्याप्तस्थिरशुभलक्षणानां दशप्रकृतीनां यथासंभवं पर्याप्तैकेन्द्रियापर्याप्तत्रसयोग्यं पञ्चविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टः प्रदेशबन्धो लभ्यते, नोत्तरैः षड्विंशत्यादिबन्धैर्भागबाहुल्यादेव । नाप्यधस्तनेन त्रयोविंशतिबन्धेन, तत्रैतासां बन्धाभावादेव । तौ च त्रयोविंशतिपञ्चविंशतिबन्धौ सम्यग्दृष्टेन भवतो देवपर्याप्तमनुष्यप्रायोग्यबन्धकत्वात् तस्येति । अत
३००
AA
AAA