________________
॥श्रीवीतरागाय नमः॥
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलालप्रतिविरचितया आचारमणिमञ्जूपाख्यया व्याख्यया समलङ्कृतं
श्रीदशवैकालिकसूत्रम्
मङ्गलाचरणम्.
नम्रीभूतपुरन्दरादिमुकुट, भ्राजन्मणिच्छायया, चित्रानन्दकरी सदा भगवतो, यस्याङ्ग्रिलक्ष्मीः परा । यद्विज्ञाननिरन्तसिन्धुलहरी,-मग्नाः स्वकर्मक्षयं, कृत्वाऽनन्तसुखस्य धाम भविनः, प्रापुः श्रये तं जिनम् ॥१॥ विमलः केवलाऽऽलोक,-प्रभासंभारभासुरः। त्रिजगन्मुकरो धीरो, वीरो विजयतेतराम् ॥२॥ श्रीसुधर्मा महावीर-लब्धरत्नोज्ज्वलो गणी। निववन्ध तदुक्ताथै, नमस्तस्मै दयालवे ॥३॥ अथैतत्करुणालब्ध,-विवेकामृतविन्दुना । दशकालिकव्याख्या, घासीलालेन तन्यते ॥४॥