SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-६ २०११ सूर्यस्य प्रथमपण्मासाहोरात्रे क्षेत्रसंचरणम् ७३ न्दिवेन 'विकंपाचा २' विकम्प्य २ 'सरिए चारं चरई' सूर्यः चारं चरति, 'एगे एवमाइंसु' एके केचन सप्तमाः एवं पूर्वोक्तप्रकारेण माहुः कथयन्ति । इति सप्तमा प्रतिपत्तिः ७ पूर्व परमतवादिनां सप्तप्रतिपत्तीः प्रदर्य साम्प्रतं भगवान् स्वमतं प्ररूपयति-'वयं पुण' इत्यादि । 'वयं पुण' वयं पुनः पूर्वपूर्वतीर्थकरानुद्दिश्य वयं पुनः एवं वक्ष्यमाणप्रकारेण 'क्यामो' वदामः केवळालोकेनाऽऽलोक्य कथयामः-'ता' तावत् - 'दो जोयणाई' हे योजने 'अडयालीसं च एगसट्ठिभागे' अष्टचत्वारिंशतश्च एकषष्टिभागान् [२-१८] 'जोयणस्स' योजनस्य, अष्टचत्वारिंशदेकपष्टिभागसहितयोजनद्वयपरिमितम् 'एगमेगं मंडलं' एकैकं मण्डलम् 'एगमेगेणं राइदिएण' एकैकेन रात्रिन्दिवेन अहोरात्रेण 'विकपइत्ता' २ विकम्प्य २ 'मूरिए चारं चरई' सूर्यः चारं चरति । सूर्य एकेन अहोरात्रेण दे योजने अष्टचत्वारिंशदेकपष्टिभागान् एकैकं मण्डलं स्पृष्ट्वा २ चारं चरतीति भावः । गौतमः पुनः पृच्छति-तत्य ण' तत्र भवत्प्रतिपादितपूर्वोक्तविषये खलु को हेऊ' को हेतुः किं कारणं का तत्र व्यवस्थेत्यर्थः 'इति' इति-एवं तां व्यवस्था 'वदेज्जा' वदेत् हे भगवन् ! कथयतु, इति प्रश्नः । भगवानाह-'ता अयण्णं' इत्यादि 'ता' तावत् 'अयण्णं' अयं खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपो द्वीपः मध्यजम्बूद्वीपः पूर्वप्रतिपादितस्वरूपः पूर्वप्रदर्शितप्रमाणः 'परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्ते' प्रज्ञप्तः कथितः । तत्र 'ता' तावत् 'जया णं' यदा खले 'सरिए' सूर्यः 'सम्वन्भंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्ठापत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षप्राप्तः सर्वथा वृद्धिगतः 'उक्कोसए' उत्कर्षकः उत्कृष्टः अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति, तथा 'जहण्णया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहर्ता रात्रि र्भवतीति । 'ता' तावत् तत्पश्चात् 'से' सः 'निक्खममाणे सुरिए' निष्क्रामन् सूर्यः 'णवं संवच्छरं अयमाणे' नवं संवत्सरमयन् प्राप्नुवन् 'पढमंसि अहोरतसि' प्रथमेऽहोरात्रे 'अभंतराणंतरं' अभ्यन्तरानन्तरं सर्वाभ्यन्तरमण्डलानन्तरस्थितं 'मंडलं' द्वितीयं मण्डलं 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया णं' यदा खलु मूरिए' सूर्यः 'अभितराणंतरं' अभ्यन्तरानन्तरं द्वितीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चार चरति 'तया णं' तदा खल 'दो 'जोसणाई' द्वे योजने 'अडयालीसं च एगसद्विभागे' अष्टचत्वारिंशतं च एकषष्टिभागान् ‘जोयणस्स' योजनस्य-[२-४८ एगेणं राइदिएण' एकेन
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy