SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीकाप्रा.२० सु४ चन्द्रसूर्ययोरग्रमहिषीणां संख्यादि वर्णनम् ७०७ अर्चिालि ३, प्रभङ्करा ४ इति । विमानं च सूर्यस्य सूर्यावतंसकमवसेयम् । अन्यत् सर्व निरवशेषं चन्द्रवदेव पठनीयं, नान्यः कोऽपि भेदः । कथितस्यापि पुनरत्रकथनं चन्द्रसूर्यप्रसङ्गवशादिति न कश्चिद्दोप इति । साम्प्रतं चन्द्रसूर्याणां कामभोगानां शातासुखं कीदृशमिति प्रतिपादयति-'ता चंदिमसरियाणं' इत्यादि 'ता' तावत् 'चंदिममूरियाणं' चन्द्रसूर्याः खलु ज्यौतिपेन्द्रा ज्योतिपराजा कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति-तिष्ठन्ति ? । एवं गौतमेन पृष्टे भगवानाह-'ता से जहानामए' इत्यादि, 'ता' तावत् सः यथा नामकः अनिर्दिष्टनामा 'कई पुरिसे' कोऽपि पुरुषः कीदृशः ? इत्याह 'पढम' इत्यादि पढमजोवणुट्ठाणवलसमत्त्ये' प्रथमयौवनोत्थानबलसमर्थः प्रथमयौवनोत्थाने प्रथमयौवनोद्गमे यदलं शरीरसामर्थ्य तेन समर्थः प्रथमेत्यादि तादृश्याः एव भार्यया साईमित्यग्रेणान्वयः 'अचिरवत्तवीवाहे' अचिरवृत्तविवाहः तत्कालकृतपाणिग्रहः सन् 'अत्थत्थी' अर्थार्थी घनार्थी अतएव 'अत्थगवेसणयाए' अर्थगवेपणतायै धनोपार्जनार्थम् 'सोलसवासविप्पचसिए' पोडश वर्षविप्रोषितः पोडशवर्षानि यावत् कृतदेशान्तरप्रवासः 'से णं' स खलु पुरुष 'तो' ततः देशान्तरात् 'लढे' लब्धार्थः प्रातः प्रभूतार्थः, अतएव 'कयकज्जे' कृतकार्यः कृतं सपादितं कार्य: धानोपार्जनरूपं येन स तथाभूतः, 'अणहसमग्गे अनध समग्रः अनधम-अक्षतं न पुनरन्तराले केनापि चोरादिना लुण्टितं समग्रं-द्रव्यभाण्डोपकरणादि यस्य स तथा, एतादृशः सन् पुनरपि 'णियगघरं हव्वमागए' निजकगृहं स्वगृहं हव्यं-शीघ्र मार्गे कुत्रापि निवासमकुर्वन् आगतः-समागतः । सच 'पहाए' स्नातः कृतस्नानः 'कयवलिकम्मे' कृतबलिकर्मा कृतं बलिकर्म पशुपक्षिभ्योऽन्नप्रदानादि रूपं येन स तथा भूतः, कृतकौतुकमङ्गलप्रायश्चित्तः-कृतं कौतुकं मषीतिलकादिक मङ्गलं मगलकारकं दध्यक्षतादिधारणं प्रायश्चितं दुःस्वप्नादि फलनिवारणार्थ देवगुरुनमस्काररूपं येन स तथाभूतः 'सुद्धप्पावेसाई' शुद्धानि पवित्राणि स्वच्छानि वा प्रावेश्यानि सभादि प्रवेशयोग्यानि यद्वा 'सुद्धप्पा' इति पृथक् पदं तस्यायमर्थः शुद्धात्मा कृतकौतुकमङ्गलप्रायश्चित्तत्वेन शुद्धान्तःकरणः 'वेसाई' वेष्यानिवेपयोग्यानि 'मंगल्लाई' माङ्गल्यानि मङ्गलसूचकानि न तु शोकसूचक कालवर्णादि युक्तानि एतादृशानि 'वत्थाई' वस्त्राणि 'पवरपरिहिए' प्रवरतया यथास्थान परिहितानि येन स प्रवरपरिहितः, पुनश्च 'अप्पमहग्धाभरणालंकियसरीरे' अल्पानि भारापेक्षयाऽल्पभारयुक्तानि महा_णि महामूल्यानि यानि आभरणानि, तैरलड्कृतं शरीरं यस्य स तथाभूतः सन् 'मण्णुण्णं' मनोज्ञं कलमोदनादि 'थालीपागसुद्ध' स्थालोपाकशुद्धं स्थाली-पिठरी तस्यां पाको यस्य अन्यत्राहि पक्कमोदनादि न सु पक्कं भवति तत इदं स्थालीपाकेति विशेषणम्, अत एव शुद्धम् अपक्कादिदोपवर्जितं भक्तदोषवर्जितं वा 'अट्ठारसवंजणाउलं' अष्टादशव्यञ्जना कुलम् अष्टादशभिर्लोकप्रसिद्धैर्व्यञ्जनैः शालनकतक्रावलेहनिकादिभिराकुलं युक्तम्, एतादृशं
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy