SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ७०६ चन्द्रप्रनप्तिसूत्रे स यथानामकः कोऽपि पुरुपः प्रथमयौवनोत्थानवलसमर्थः प्रथमयौवनोत्थानवलसमर्थया भार्यया सार्द्धम् अचिरवृत्तविवाहः अर्थार्थी अर्थगवेषणतायै पोडशवर्पविप्रोपितः, स खलु ततः लब्धार्थः कृतकार्यः अनघ समनः पुनरपि निजकगृहं हन्यमागतः स्नातः कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शुद्धप्रवेश्यानि मङ्गल्यानि वस्त्राणि प्रघरपरिहितः अल्पमहार्धाभरणालङकृतशरीरः मनोनः स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजन भुक्तः सन् तस्मिन् तादृशे वासगृहे अन्तः सचित्रकर्मणि बाह्यतो दुमितवृष्टष्टे विधिघोल्लोचचिल्लिनतले बहुसमसुविभक्तभूमिभागे मणिकिरणप्रणाशितान्धकारेकालागुरु प्रवरशन्दुरुष्क तुरुष्क धूपमघमघायमानगन्धोद्धताभिरामे सुगन्धवरगन्धिते गन्धवर्तीभूते, तस्मिन् तादृशे शयनीये उभयत उन्नते मध्ये नतगम्भीरे सालिङ्गलवर्तिके प्रज्ञाप्त गण्ड वियोयणसुरम्ये गङ्गापुलिनवालुकोदालसदृशके सुविरचितरजस्त्राणे ओविय क्षौमिकामदुकूलपट्टप्रतिच्छादने रक्तांशुकसंवृते सुरम्ये आजिनकरूनवूरनवनीततूलस्पर्श सुगन्धवरकुसुमर्णशयनोपचारकलिते तया तादृश्या भार्यया साद्ध शृङ्गारागारचारवेषया संगतहसितमणिनस्थितसंलापविलासनिपुणयुक्तोपचारकुशलया अनुरक्ता विरकया मनोऽनुकृलया एकान्तरतिप्रसक्तः अन्यत्र कुत्रापि मनोऽकुर्वन् इष्टान् शब्दस्पर्श रसरूपगन्धान पञ्च वधान् मानुष्कान् कामभोगान् प्रत्यनुभवन् विहरेत् , तदा स खलु पुरुषः व्युपशमनकालसमये कीदृशं शातासौख्यं प्रत्यनुभवन् विहरति ?, उदार श्रमणायुष्मन् ! तावत् तस्य खलु पुरुषस्य कामभोगेभ्यः पभ्यः अनन्तगुणविशिष्टतरा पव वानव्यन्तराणां देवानां कामभोगाः । वानव्यन्तराणां देवानां कामभोगेभ्यः अनन्तगुणविशिष्टतरा एव असुरेन्द्रजिताना भवनवासिनां देवानां कामभोगाः । असुरेन्द्रवर्जितानां देवानां काममोगेभ्यः पथ्यः अनन्तगुणविशिष्टतरा एव असुरकुमाराणामिन्द्रभूतानां देवानां कामभोगाः। असुरकुमाराणामिन्द्रभूतानां देवानां कामभोगेभ्यः एभ्यः अनन्त गुणविशिष्टतरा एव ग्रहगणनक्षत्रतारारूपाणां कामभोगाः ग्रहगणनक्षत्रतारारूपाणां कामभोगेभ्यः अनन्तगुणविशिष्टतरा एव चन्द्रसूर्याणां देवानां कामभोगाः । तावत् ईशान् खलु चन्द्रसूर्या ज्योतिपेन्द्राः ज्योतिप रानाः कामभोगान् प्रत्यनुभवन्तो विहरन्ति ॥सू० ४ . व्याख्या-'ता चंदस्स णं' इति, 'ना' तावद् 'चंदस्स णं' चन्द्रस्य खलु ज्यौतिपेन्द्रस्य ज्यौतिपराजत्य 'कइ' कति कियत्यः 'अग्गमहिसीओ' अग्रमहिण्यः पट्टराश्यः प्रज्ञप्ताः ? भगवानाह-'ता चदस्सणं' इत्यादि, 'ता' तावत् 'चंदस्स णं, चन्द्रस्य खल ज्यौतिपेन्द्रस्य ज्योतिपराजस्य 'चत्तारि अग्गमहिमीओ' चतस्रः अग्रमहिण्यः प्रज्ञप्ताः, तद्यथा-ता इमाः'चंदप्पमा' इत्यादि, चन्द्रप्रभा १, ज्योत्स्नाभा २, अचिर्मालिः ३, प्रभङ्करा ४ इति 'जहा हेवा तं चेव यथा अधस्तात् इतः पूर्वमष्टादशे प्रामृते पञ्चमे सूत्र प्रतिपादितं तदेवनादेवात्रापि सर्व वाच्यम् । क्रियत्पर्यन्त मित्याह-'जावणोचेव णं मेहुणवत्तियाए' यावत् यावस्पदेन अप्रमहिपीपरिवागादिवर्णन गीतनृत्यादिकं च वाच्यम् नैव स्खल मैयुनवृत्त्येति । 'एवं सूरम्स वि यन्त्र एवम्-अनेनैव प्रकारण सूर्यस्यापि सर्वा पठनीया विमानादि ऋद्धिः, भेदस्तावंदनावानेव यत् मूर्यस्य चतस्रोऽप्रमहिष्य इमा वाच्याः , तथाहि-सूर्यप्रभा १, आतपा २,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy