________________
चन्द्रशतिप्रकाशिकाटीका० प्रा० १९ सू. १ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६६९ - ' जाव' इत्यादि, यावत् 'एग ससी परिवारो तारा गण कोडी कोडीणं' एक शशिपरिवारः तारागण कोटी कोटीनाम् इत्येतत्पर्यन्तं चत्वारिंशत्तम गाथावधिकं पठनीयमिति ।
"
अस्य- आयामविष्कम्भप्रश्नः सूत्रे एव भगतः, परिक्षेप प्रश्नादारभ्य जीवाभिगमोक्तः पाठः प्रदर्श्यते- 'केवईए परिक्खेवेणं' इत्यादि, 'केवड़ए परिक्खेवेणं आहिए' कियत्कं परिक्षेपेण आख्यातम् ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! एवं गौतमेन पृष्टे भगवानाह 'ता पणयालीसं' इत्यादि, इदं मनुष्यक्षेत्रं पञ्चचत्वारिंशल्लक्षयोजनपरिमित मायामविष्क्रम्भेण (४५०००००) आख्यातम्, तथा परिधिमाह - 'एगा जोयण कोडी' इत्यादि, एका योजन कोटी, द्विचत्वारिंगल्लक्षाणि ऐकोन पञ्चाशदधिके योजनशते - (१४२००२४९) एतावत्परिमितं ननुण्यक्षेत्रं परिक्षेपेण आख्यातमिति । अस्यायामविष्कम्भपरिमाणं पञ्च चत्वारिंगल्लक्षाणि यथा एकं लक्षं जम्बूद्वीपे ? ततो लवण समुद्रे पूर्वापरतो द्वे द्वे लक्षे इति व लक्षाणि, धातकी पण्डे एकतोऽपरतश्च चत्वारि चत्वारि लक्षाणीति अष्टौ लक्षाणि, कालोंदसमुद्रे एकतोऽपरतश्च अष्टौ अष्टौ लक्षाणीति षोडश लक्षाणि आभ्यन्तर पुष्करा र्द्धेऽपि एकतोऽपरतश्च अष्टौ अष्टौ लक्षाणीति पोडश लक्षाणि (१.४-८ = १६-१६ - ४५ ) इति सर्वसख्या संमेलनेन जायन्ते पश्चचत्वारिंशल्लक्षाणि (४५००००० ) । परिधिगणितभावना तु 'विक्खभवग्ह गुणः' इत्यादि करणवशात् स्वयं कर्त्तव्या । अथ चन्द्रादिविषये गौतमः पृच्छति - 'ता मणुस्सखेत्तेणं' इत्यादि 'ता' तावत् 'मणुस्स खेत्तेणं' मनुष्यक्षेत्रे खलु 'केवइया चंदा पभासिसुवा ३ 'कियन्तश्चन्द्राः प्रभासयन् वा ३, 'पृच्छा तहेव' पृच्छा तथैव तथाहि कियन्तः सूर्या अतापयन् वा ३ कियन्ति नक्षत्राणि योगमयुञ्जन् वा ३ कियन्तो महाग्रहाश्चारमचरन् वा, कियत्यस्तारा शोभामगोभन्तवा ३ ? इति प्रश्न; भगवानाह 'ता बत्तीसं चंदसयं' इत्यादि, तावत् द्वात्रिंशदधिकशत सख्यकाश्चन्द्राः प्राभासयन् वा ३ द्वा त्रिर्शदधिकशतसंख्यका एव सूर्या अतापयन् वा ३ । नक्षत्राणि - ' तिण्णि सहस्सा' इति पण्णवत्यधिक पट्ातोत्तरसहस्रत्रय (३६९६) संख्यकानि योगमयुञ्जन् वा ३ । महाग्रहाः–‘एक्कारस सहस्सा' इति - षोडशोत्तर षट्शताधिकैकादशसहस्र (११६१६) संख्यका श्वारमचरन् वा ३, तारापरिमाणमाह - 'अट्ठासी इं' इत्यादि, अष्टाशीतिः लक्षाणि चत्वारिंशच्च सहस्राणि सप्त च शतानि (८८४०७००) तारागण कोटोकोट्य. शोभामशोभन्त वा ३ । नक्षत्रादीना संख्या भावना - नक्षत्रगृहताराणां स्वस्व परिवार संख्याया अत्रत्य चन्द्रसंख्यया द्वात्रिंशदधिकशत ( १३२ ) रूपया गुणने नक्षत्रादीनां संख्या समायातीति स्वयं करणीयम् । अत्र आभ्यन्तरपुष्करार्द्धमनुष्यक्षेत्रयोरेतयोर्द्वयोरपि आयामविष्कम्भ - परिधिप्रमाण-चन्द्रादिसख्या प्रतिपादिका' 'अहेव सयसहस्सा' इति गाथात आरभ्य "सत्त यसया अणूणा तारागण कोडिकोडीणं' इति पर्यन्तमष्टौ गाथाः सन्ति, आसामर्थः,