________________
बन्द्राप्तिप्रकाशिकाटीका प्रा. १५. सू. १ ज्योतिष्काणां शीघ्रगतिनिरूपणम् ५९९ विंशत्यधिकशतद्वयभागानां मण्डलभागाः अष्टनवति शताधिकैकलक्षप्रमिता लभ्यन्ते तदा एकेन मुहूर्तेन ते कति लभ्यन्ते ? राशि त्रयस्थापना-११३७२५।१०९८००।१॥ इह आयो राशि मुहुर्तगतकविंशत्यधिकशतद्वयभागरूपः (२२१) ततः सवर्णनार्थमन्त्यो राशि रेककरूप एकविंशत्यधिकशतद्वयेन (२२१) गुण्यते जातास्तावानेव एकविंशत्यधिके द्वेशते (२२१) ताभ्यां मध्यो राशिगुण्यते, जाते वे कोट्यौ, द्विचत्वारिंशल्लक्षाः, पञ्चषष्टिः सहस्राणि, अष्टौ शतानि (२४२६५८००) तेषामाघेन राशिना पञ्चविंशत्युत्तर सप्तशताधिक त्रयोदश,सहलरूपेण (१३७२५) भागो हियते, लब्धानि सप्तदशशतानि अष्टषष्टयधिकानि (१७६८), एतावतो भागान् यत्र तत्र वा मण्डले चन्द्र एकेन मुहूर्तेन गच्छति । एतत् मन्डलकालानुसारेण मुहूर्तगति परिमाणं जातमिति ।।
' अथ सूर्यग तिसूत्रमाह-'ता एगमेगेणं' इत्यादि, 'ता' तावत् 'एगमेगेणं मुहुत्तेणं' एकैकेन मुहूर्तेन प्रतिमुहूर्तेन 'सरिए' सूर्यः 'केवइयाई' कियन्ति 'भागसयाई' भागशतानि 'गच्छइ' गच्छति ? भगवानाइ-'ता' जं जं' इत्यादि 'ता' तावत् सूर्यः जं जं मंडल' यद् यद् मण्डलं 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तस्स तस्स' तस्य तस्य 'मंडलपरिक्खेवस्स' तत्तन्मण्डलसम्बन्धिनः परिक्षेपस्य परिधेः 'अट्ठारसतीसाई भागसयाई त्रिंशदधिकानि अष्टादश भागशतानि (१८३०) 'गच्छइ' गच्छति, तानि च 'मंडल' एक मण्डलं 'सयसहस्सेणं अट्ठाणउइसएहि' शतसहस्रेण लक्षण अष्टानवतिशतैः (१०९८००) अष्टानवति शताधिकेन एकेन लक्षणेत्यर्थः । 'छेत्ता' छित्वा विभज्य तत्सम्बन्धीनि विज्ञेयानि मण्डलस्य अष्टानवति शताधिकैकलक्षभागान् कृत्वा तन्मध्यात् त्रिंशदधिकानि अष्टादश शतानि (१८३०) भागानां सूर्यो गच्छतीति भावः । तदेव गणितेन प्रदाते, तथाहिअत्रापि त्रैराशिकं कर्त्तव्यम् सूर्यश्चन्द्राभ्यां द्वे अर्द्धमण्डले इति एकं परिपूर्णमण्डलं गच्छति, ततो योनियोः षष्टि मुहूर्ता भवन्तीति यदि षष्टि मुहूत्र्तेः अष्टानवति शताधिकैकलक्षमण्डल भागां लभ्यन्ते तदा एकेन मुहूर्तेन कति भागा लभ्यन्ते ? राशित्रय स्थापना-६०।१०८००।१। अंबान्त्येन राशिना मध्य राशि गुण्यते जातस्तावानेव (१०९८००)। ततस्तस्यायेन राशिना पष्टि लक्षणेन भागो हियते, लब्धानि त्रिंशदर्घिकानि अष्टादश शतानि (१८३०) एतावतो भागान् मण्डलस्य सूर्य एकैकेन मुहूर्तेन गच्छति ।।
" अथ नक्षत्रगति सूत्रमाह-'ता एगमेगेणं इत्यादि, 'ता' तावत् 'एगमेगेणं मुहत्तेणं' एकैकेन मुहूर्तेन ‘णक्खत्ते' नक्षत्रं 'केवइयाइं भागसयाइं गच्छइ' कियन्ति भागशतानि गच्छति ! भंगवानाह -'ता जं जं इत्यादि, 'ता तावत् 'जं जं मंडलं' यद् यद् मण्डलं 'उवसंकमित्ता' उपसंक्रम्य नक्षत्रं 'चारं चरइ' चारं चरति 'तस्स तस्स मंडलपरिक्खेवस्स'