________________
चन्द्रशतिप्रकाशिका टीका प्रा १५ सू. १
ज्योतिष्काणां शीघ्रगति निरूपणम् ५९७
तावत् यद् यद् मण्डलम् उपसंक्रम्य चारं चरति तस्य तस्य मण्डलपरिक्षेपस्य सप्तदश अष्ट षष्ठानि भागशतानि गच्छति, मण्डल शतसहस्रेण अष्टानवति शतैश्छित्वा । तावत् पकैकेन मुहूर्त्तेन सूर्यः कियन्ति भागशतानि गच्छति ? तावत् यद् यद् मण्डलम् उपसंक्रम्य चारं चरति तस्य तस्य मण्डलपरिक्षेपस्य अष्टादश त्रिशानि भागशतानि गच्छति मण्डलं शतसहस्रेण अष्टानवति शतैछित्त्वा । तावत् एकैकेन मुहर्त्तेन नक्षत्र कियन्ति भागशतानि गच्छति ? तावत् यद् यद् मण्डलमुपसंक्रभ्य चारं चरति तस्य तस्य मण्डलपरि क्षेपस्य अष्टादश पञ्च त्रिशानि भागशतानि गच्छति मण्डलं शतसहस्रेण अष्टानवतिशतैमिळवा | सूत्र १
व्याख्या – 'ता कहंते' इति, 'ता' तावत् 'कहं कथं केन प्रकारेण हे भगवन् 'ते' त्वया 'वत्थु ' चन्द्रसूर्यादिवस्तु 'सिग्घगइ आहिये' शीघ्रगति आख्यातम् ? 'तिवएज्जा' इति वदेत् वदतु कथयतु । भगवानाह - 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां वक्ष्यमाणानां खल 'चंद सूरियगहगणन क्खत्ततारारूवाणं' चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां पञ्चानां ज्योतिष्काणा मध्ये 'चंदेर्हितो सूरिया सिग्घगई' चन्द्रेभ्यः चन्द्रापेक्षया सूर्याः शीघ्रगतयः सन्ति, 'रिए हितो गहा सिग्घगई' सूर्येभ्यो ग्रहाः शीघ्रगतयः सन्ति, 'गहेहिंतो णक्खत्ता सिग्घगई ' ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि सान्त, 'नक्खत्ते हितो तारा सिग्घगई' नक्षत्रेभ्यस्ताराःशीघ्रगतयः सन्ति । एतेषां पञ्चानां ज्योतिष्काणां मध्ये केषा सर्वाल्पा गतिः केषां च सर्व शीघ्रा गतिः ? इत्याह-'सव्वष्पगई' इत्यादि, 'सव्वष्पगई चंदा' सर्वाल्पगतयश्चन्द्राः सान्त, 'सव्वसिग्घगई तारा' सर्वशाघ्रगतयस्तारा इति । एतमेवार्थ स्पष्टीकरणार्थ पृच्छति - ' ता एगमेगेणं' इत्यादि, 'ता' तावत् 'एगमेगेणं मुहुत्ते।' एकेकेन मुहूर्त्तेन 'चंदे' चन्द्रः 'केवइयाई भाग सयाई' कियन्ति भागशतानि मण्डलस्य 'गच्छइ' गच्छति : भगवानाह - 'ता जं जं' इत्यादि, 'ता' तावत् 'जं जं मंडल' यद् यद् मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसक्रम्य चारं चरति 'तस्स तस्स तस्य तस्य 'मंडल परिक्खेवस्स' मण्डलसम्बन्धिनः पारक्षेपस्य परिधेः 'सत्तरस असहि भागसयाई' सप्तदश अष्टषष्टधान अष्टषष्ट्यधिकानि भागशतानि अष्टषष्ट्यधिकानि सप्तदश शतानि (१७६८) भागाना 'गच्छइ' गच्छात, 'मंडलं' मण्डलं मण्डलपारक्षेपं च 'सयसहस्सें' शतसहस्रेण एकेन लक्षण 'अट्ठाण उइस एहि ' अष्टनवतिशतैः अष्टनवतशताधिकेन लक्षण (१०९८००) 'छेत्ता' छित्त्वा विभज्येति । यास्मन् मण्डले चन्द्रश्चार चरति तस्य मण्डलस्य भष्टानवतिशताधिकंकलक्ष - (१०९८००) भागान् कृत्वा तन्मध्यात् अष्टषष्ट्यधिक सप्तदशशतभागान् (१७६८) अभिव्याप्य चन्द्रश्चारं चरतीति भावः ।
अत्रेयं भावना— इह प्रथमं चन्द्रस्य मण्डलकालो निरूपणीयः तत्पश्चात् तदनुसारेण मुहूर्त्त - गतिपरिमाणं पारभावनीयम् तत्र पूर्वं चन्द्रस्य मण्डलकाल: परिभाव्यते - एकस्मिन् युगे चन्द्रः