SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका 'टीका प्रा.१० प्रा०प्रा २० संवत्सरस्वरूपनिरूपणम् ३७१ त्रीणि शतानि शेषा एक पञ्चाशत्सप्तषष्टिभागाः (३२७-५) तदेवमायातं नक्षत्रसंवत्सराहोरात्र ६७ प्रमाणम्, एतावदहोरात्रप्रमाणो नक्षत्रसंवत्सरो भवतीति १ । द्वितियः 'जुगसंवच्छरे' युगसंवत्सरः, तत्र युगं पञ्च संवत्सरात्मकम् तत्पूरकः संवत्सरो युगसंवत्सरः । यदा चान्द्र-चान्द्राऽभिवर्धितचान्द्राऽभिवर्धितरूपाः पञ्च संवत्सराः परिपूर्णा व्यतीता भवेयुस्तदा एको युगसंवत्सरः परिपूर्णो भवतीति ।२। तृतीयः ‘पमाण संवच्छरे' प्रमाणसवत्संरः युगस्य प्रमाणहेतुः संवत्सरः प्रमाणसंव त्सरः । 'लक्खण संवच्छरे' लक्षणसंवत्सरः, लक्षणेन यथावस्थितेन उपेतः संवत्सरो लक्षणसंवत्सरः ४ । 'सणिच्छरसंवच्छरे' शनैश्चरसंवत्सरः, शनैश्चरेण निप्पादितः संवत्सरः पञ्चमःशनैश्चरसंवत्सरः ५ ॥ सू० १॥ पूर्व पञ्चापि संवत्सरा नामतः प्रतिपादिताः, अथैतेषां यथाक्रमं भेदान् प्रदर्शयति'ता नक्खत्तसंवच्छरे' इत्यादि । मूलम्-ता णक्खत्तसंवच्छरेणं दुवालसविहे पण्णत्ते, तं जहा सावणे १ भदवए २ जाव आसाढे १२। जं वा वहस्सई महग्गहे दुवालसहिं संवच्छरेहिं सव्वं णक्खत्तमंडलं समाणेइ ॥सू० २॥ छाया- तावत् नक्षत्रसंवत्सरः खलु द्वादशविधः प्रज्ञप्तः, तद्यथा श्रावणः १ भाद्रपदः २, यावत् आपाढः १२२ यद्वा वृहस्पति महा ग्रहः द्वादशभिः संवत्सरैः सर्व नक्षत्रमण्डलं समानयति । सु० २॥ व्याख्या-'ता' तावत् प्रथमं नक्षत्रसंवत्सरः कथ्यते–'णक्खत्तसंवच्छरेणं' नक्षत्रसंवत्सरः खलु 'दुवालसविहे पण्णत्ते द्वादशविधः द्वादशप्रकारकः प्रज्ञप्तः कथितः, 'तं जहा' तद्यथा-'सावणे भदवए' श्रावणः १, भाद्रपदः २, 'जाव आसाढे' यावत् आपादः १२॥ यावत्पदेन-आश्विनः २ कार्तिकः ४ मार्गशीर्षः ६ पौषः ६ माघः ७ फाल्गुनः ८, चैत्र: ९ वैशाखः १०, ज्येष्ठः ११, एते नव मासा गृह्यन्ते । इह-एकः समस्त नक्षत्रयोगपर्यायो द्वादशभि गुणने नक्षत्रसंवत्सरो भवति । एवं ये नक्षत्रसंवत्सरस्य पूरका द्वादश समस्तनक्षत्रयोगपर्यायाः श्रावण भाद्रपदादिनामानस्तेऽपि अवयवे समुदायोपचारान्नक्षत्रसवत्सर इति । यथा-श्रावणादारभ्याषाढपर्यन्तः कालविशेषः नक्षत्रसवत्सरः १। एवं सर्वत्र संयोजनीयम् । अथ द्वितीय प्रकारमप्याह-'जं वा' इत्यादि, 'जं वा' यद्वा-अथवा-'वहस्सई महग्गहे' बृहस्पतिर्महाग्रहः 'दुवालसहि संवत्सच्छरेहि' द्वादशभिः सवत्सरैः 'सव्वं नक्खत्तमंडलं' सर्वमष्टाविंशति नक्षत्रात्मकं नक्षत्रमण्डलं योगमधिकृत्य परिभ्रमणेन 'समाणेइ' समानयति समापयति, एषोऽपि नक्षत्र संवत्सर
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy