________________
चन्द्रप्रशतिसूत्रे
कथ्यन्ते-तानि द्वादश १२| उपकुलानीति किम् ? तत्राह - मा ससदृशनामक नक्षत्रेभ्यः पूर्वगतानि नक्षत्राणि यदि यान् मासान् समाप्तिं नयन्ति तानि उपकुलानि कथ्यन्ते तान्यपि द्वादश १२ | यानि पश्चानुपूर्व्या तृतीयानि नक्षत्राणि यान् मासान् समाप्ति नयन्ति तानि कुलोपकुलानि कथ्यन्ते तानि च चत्वार्येव भवन्ति ४ । तान्येव दर्शयामः - श्रविष्ठः, श्रावणो मासः प्रायः श्रविष्ठया घनिष्ठा - परपर्यायया समाप्तिमेतीति । श्रावणपूर्णिमायां यदि धनिष्ठा भवेत्तदा धनिष्ठा नक्षत्रं कुलमुच्यते १, भाद्रपदपूर्णिमायां यदि उत्तराभाद्रपदा भवेत्तर्हि तत् कुलं कथ्यते २ एवम् आश्विन - पूर्णिमायां यदि अश्विनी भवेत्तदा तन्नक्षत्रं कुलम् ३, कार्त्तिकपूर्णिमायां कृत्तिकानक्षत्रं कुलम् ४, मार्गशीर्षमासे मृगशिरो नक्षत्रं कुलम् ५, पौष पूर्णिमायां पुष्यनक्षत्रं कुलम् ६, माघपूर्णिमायां मघानक्षत्रं कुलम् ७, फाल्गुन पूर्णिमायाम् उत्तराफाल्गुनी नक्षत्रं कुलम् ८, चैत्र पूर्णिमायां चित्रा नक्षत्र कुलम् ९, वैशाख पूर्णिमायां विशाखानक्षत्रं कुलम् १०, ज्येष्ठपूर्णिमायां मूलनक्षत्रं कुलम् ११, आषाढपूर्णिमायाम् उत्तराषाढा नक्षत्रं कुलम् १२, एतानि द्वादशनक्षत्राणि कुलानि कथ्यन्ते । एतेभ्यः पूर्ववर्त्तीनि नक्षत्राणि यदि भवेयुस्तदो तानि उपकुलानि कथ्यन्ते, तथाहिश्रावणपूर्णिमायां श्रवणनक्षत्रं भवेत्तदा तद् उपकुलं कथ्यते १, एवं भाद्रपदपूर्णिमायां पूर्वाभाद्रपदा नक्षत्रमुपकुलम् २, आश्विन पूर्णिमायां रेवतीनक्षत्रमुपकुलम् ३, कार्त्तिक पूर्णिमायां भरणी नक्षत्रमुप कुलम् ४, मार्गशीर्ष पूर्णिमायां रोहिणी नक्षत्रमुपकुलम् ५ पौष पूर्णिमायां पुनर्वसु नक्षत्रमुपकुलम् ६, माघपूर्णिमायाम् अश्लेषा नक्षत्रमुपकुलम् ७ फाल्गुन पूर्णिमायां पूर्वाफाल्गुनी नक्षत्रमुपकुलम् ८, चैत्र पूर्णिमायां हस्तनक्षत्रमुपकुलम् ९, वैशाख पूर्णिमायां स्वाति नक्षत्रमुपकुलम् १०| ज्येष्ठपूर्णिमायां ज्येष्ठा नक्षत्रमुपकुलम् ११, आषाढपूर्णिमायां पूर्वाषाढानक्षत्रमुपकुलम् १२, इति । यद्युपकुलनक्षत्रात् पूर्ववर्त्तिनक्षत्रम् अर्थात् पश्चानुपूर्व्या प्रायो माससदृशनामक कुलनक्षत्रात् पूर्ववर्त्ति तृतीयं नक्षत्रं पूर्णिमायां भवेत्तदा तत् कुलोपकुलं कथ्यते तानि चत्वार्येव, सूत्रोपदिष्टानां चतुर्णामेव नक्षत्राणां श्रावण-भाद्रपद - पौष - ज्येष्ठरूपासु चतसृष्वेव पूर्णिमासु कादाचित्कत्वेन योगसंभवात्, तथाहि — श्रावण पूर्णिमायां यदि अभिनिन्नक्षत्रं भवेत्तदा तत् कुलोपकुलं कथ्यते १, एवं भाद्रपदपूर्णिमायां शतभिपग्नक्षत्रं कुत्रोपकुलम् २, पौष पूर्णिमायाम् आर्द्रा नक्षत्रं कुलोपकुलम् ३, ज्येष्ठपूर्णिमायां चानुराधा नक्षत्र कुलोपकुलं कथ्यते ४, इति । उक्तश्च —
मासाण सरिसनामा, हुंति कुला उवकुळा उ हिट्ठिमगा ।
हुंति पुण कुलोवकुला अभीइ-सय- अह -अणुराहा " ॥ १ ॥
छाया -- मासानां सदृशनामानि भवन्ति कुलानि उपकुलानि तु अघस्तनानि ।
भवन्ति पुनः कुलोपकुलानि अभिजित् १, शतभिषक् २, आर्द्रा ३ अनुराधा ॥ १ ॥ 'हिट्टिमगा' इति अघस्तनानि अधोभागस्थितानि कुलनक्षत्रेभ्यो यानि पूर्व स्थितानि पश्चानु पूर्व्या कुलनक्षत्रेभ्यो द्वितीयानीत्यर्थः ।
२५८