SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीक प्रा० ५ सू०१ सूर्यलेण्यायाः प्रतिघातस्वरूपम् १७१ (१९) पर्वतेन्द्रः-पर्वतानां मध्ये इन्द्रसादृश्यात् । (२०) पर्वतरानः-पर्वतानां मध्ये राजसादृश्यात् । इति विंशति मानीति । एतेषां शब्दानामेकार्थिकत्वे सत्यपि भिन्नार्थप्रतिपादकत्वेन एता विंशतिरपि प्रतिपत्तयो मिथ्यारूपा एवेति विज्ञेयम् । अथ भगवान् सूर्यलेश्यायाः प्रतिहतिस्वरूप प्रदर्शयति- 'ता जे णं' इत्यादि । इय च लेश्याप्रतिहतिः मन्दरेऽप्यस्ति अन्यत्रापि चास्तीत्याह-'ता' तावत् 'जे णं पुग्गला' ये खलु पुद्गलाः मेरुतटभित्तिसंस्थिताः 'सरियस्स लेस्स, सूर्यस्य लेश्यां 'फुसंति' स्पृशन्ति 'ते णं पुग्गला' ते खलु पुद्गलाः 'सरियस्स लेस्स' सूर्यस्य लेश्यां 'पडिहणंति' प्रतिघ्नन्ति अभ्यन्तरं प्रविशन्त्याः सूर्यलेश्यायास्तैः प्रतिस्खलितत्वात् । तथा 'अदिहा विण पोग्गला' अदृष्टा अपि खल येऽपि पुद्गला मेरुतटभित्तिसंस्थिता अपि दृश्यमानपुद्गलान्तर्गताः सन्तः सूक्ष्मत्वान्न चक्षुः स्पर्शमायान्ति ते अदृष्टा मपि पुद्गला 'सरियस्स लेस्स' सूर्यस्य लेश्यां 'पडिहणंति' प्रतिघ्नन्ति तैरपि अभ्यन्तरं प्रविशन्त्याः सूर्यलेश्यायाः स्वशक्त्यनुरूपं प्रतिस्खल्यमानत्वात् । तथा पुनरपि 'चरिमलेस्संतरगयावि णं पोग्गला' चरमलेश्यान्तरगता अपि खलु पुद्गलाः येऽपि च मेरोरन्यत्र भागेऽपि च चरमलेश्याविशेष संस्पर्शवन्तः पुद्गला अपि 'सरियस्स लेस्स' सूर्यस्य लेश्यां 'पडिहणंति' प्रतिघ्नन्ति तैरपि चरमलेश्यासंस्पर्शकत्वेन चरमलेश्यायाः प्रतिहन्यमानत्वात्।।सू० १॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-जप्रसिद्धवाचक पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालबति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका ख्यायां व्याख्यायां पञ्चमं प्राभृतं समाप्तम् ॥५॥ ॥ श्रीरस्तु ॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy