SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० २० २०२१ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधि. ४४५ कपाञ्चमासिकं वा एतेषां परिहारस्थानानाम् अन्यतम परिहारस्थानं प्रतिसेव्य आलोचयेत् परिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यं, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात्,पूर्व प्रतिसेवितं पूर्वमालोचितम्, पूर्व प्रतिसेतितं पश्चादा. लोचितम् २, पश्चात्प्रतिसेवितं पूर्वमालोचितम् ३ पश्चात्प्रतिसेवितं पश्चादालोचितम् ४। अप्रतिकुञ्चिते अप्रतिकुञ्चितम् १, अतिकुञ्चिते प्रतिकुन्वितम् २, प्रतिकुञ्चिते मप्रतिकुञ्चितम् ३, प्रतिकुञ्चिते प्रतिकुञ्चितम् ४। प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयत. सर्वमेतत् स्वकृतं संहृत्य य पतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥ सू० १९॥ यो भिक्षुर्वहुशोऽपि मासिकं वा बहुशोऽपि सातिरेकमासिकं वा बहुशोऽपि द्वैमासिक वा बहुशोऽपि सातिरेकद्वैमासिकं वा बहुशोऽपि त्रैमासिकं वा बहुशोऽपि सातिरेकत्रैमासिकं वा बहुशोऽपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुर्मासिकं वा बहुशोऽपि पाञ्चमासिकं वा यहुशोऽपि सातिरेकपाञ्चमासिकं वा, पतेषां परिहारस्थानानामन्यतमम् परिहारस्थानं प्रतिसेव्य आलोचयेत् प्रतिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यं स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात्, पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पञ्चादालोचितम् २, पञ्चात्प्रति सेवितं पूर्वमालोचितम् ३, पञ्चात्प्रतिसेवितं पश्चादालोचितम् ४ । अप्रतिकुञ्चिते अप्रतिकुञ्चितम् १, अप्रतिकुञ्चिते प्रतिकुञ्चितम् २, प्रतिकुञ्चिते अप्रतिकुश्चितम् 3, प्रतिकुञ्चिते प्रतिकुञ्चितम् ४ । प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः सर्वमेतत् स्वकृतं संहत्य य एतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥सू० २०॥ चूर्णी-इदं सूत्रत्रयं ( १८-१९-२० ) बहुशः सातिरेकेति संयोगरूपं प्रायश्चित्तारोपणाविषयकं बहुशः सातिरेकेति संयोगमधिकृत्य पूर्ववदेव व्याख्येयम् । पूर्वोक्तानां सर्वेषा परिहारस्थानसेवनविषयकप्रायश्चित्तसूत्राणामुपसंहारं वक्तुकामों भाष्यकारः पूर्वसूत्रातिदेशेन प्राह मुत्तविभासा जा उ, हिटिममुत्तेस सोलसेसु य । सा चेव इहं णेया, ठवणा-परिहार-णाणत्तं ॥१॥ छाया--सूत्रविभाषा या तु अधस्तनसूत्रेषु षोडशसु च । सैव इह ज्ञातव्या, स्थापना-परिहार-नानात्वम् ॥१॥ अवचूरि:- या तु सूत्रविभाषा 'जे भिक्खू' इत्यादि सूत्रावयवव्याख्या एकद्विकत्रिकादिसंयोगप्रदर्शनस्वरूपा अधस्तनसूत्रेषु-आद्यसूत्रेषु षोडशसंख्यकेषु वर्णिता सा एव विभाषा इह उपरितनेषु सप्तदशादारभ्य 'बहुसोवि साइरेग' इति सयोगसूत्रपर्यन्तेष्वपि सूत्रेषु ज्ञातव्या वक्तव्येत्यर्थः । अथ यदि सैव वक्तव्यता इहापि तदा पूर्वसूत्रेभ्य एतेषां सूत्राणां को विशेषस्तत्राह
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy