SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ॥ अष्टादशोदेशकः॥ सप्तदशोहेशकं व्याख्याय तदनु अवसरप्राप्तोऽष्टादशोदेशकः प्रारभ्यते, अथास्याष्टादशोद्देशकादिसूत्रस्य सप्तदशोदेशकान्तिमसूत्रेण सह कः सम्बन्धः १ इति चेदत्राह भाष्यकारःभाप्यम्-- सहस्स सवणहाए, गमणं दुविहं भवे । ____जलेण थलमग्गेण जलेणेत्थ निसिज्झइ ॥ छाया- शब्दस्य श्रवणार्थाय गमनं द्विविधं भवेत् । जलेन स्थलमार्गेण जलेनात्र निषिध्यते ॥ अवचूरिः- सप्तदशोद्देशके शब्दस्य श्रवणार्थाय ततविततशुषिरादिवादित्राणां तथा अनेकेषां दिविधशब्दानां श्रवणाय, तत्र स्थलविशेषे 'ततविततशुषिरादिवादित्राणां मनोहरशब्दोऽवश्यमेव श्रोतव्यः' इत्येवं प्रकारेण मनसा निश्चयं करोति, तच्छवणं च शब्दस्थानमगत्वां असंभवि इति मत्वा अवश्यमेव गमनं करिष्यति, तद् गमनं द्विविधं-द्विप्रकारकं भवेत् एकं गमनं जलेन-जलमार्गेण द्वितीयं च गमनं स्थलमार्गेण । तत्र पूर्व शब्दश्रवणार्थ स्थलमार्गस्य निषेधः कृतः । जलमार्गेण गमनं तु नावमाश्रित्य भवतीति नौकाविषयको निपेघोऽत्रास्मिन् उद्देशके करिष्यते, अयमेव सम्बन्धः पूर्वापरोदेशकसूत्रयोर्भवतीति, तदनेन संबन्धेन आयातस्यास्याष्टादशोद्देशकस्येदं प्रथमं सूत्रम् सूत्रम्-जे भिक्खू अणट्ठाए णावं दूरूहइ दूरुहंतं वा साइज्जइ,॥ छाया-यो भिक्षुः अनर्थाय नावं दृरोहति दूरोहन्तं वा स्वदते ॥ सू. १ ॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अणंद्वार' मनाय तत्र न अर्थाय इति अनर्थाय अत्रार्थशब्दः प्रयोजनार्थद्योतकस्तथा च प्रयोजन मन्तरेणैव इत्यर्थः । अथवा-अनर्थाय--स्वेष्टसिद्धेविघातकाय साधूनामिष्टं मोक्षप्राप्तये संयमाराधनम्, नहि संयमाराधनमकृत्वा कोऽपि मोक्षभागी संभवति 'ज्ञानदर्शनचारित्रतपांसि मोक्षमार्गः' इति नियमात् नावादिना जलसतरणेऽवश्यं षट्कायजीदानामतिपातो भवेत् ततश्च संयमो विराधितो भवति ततः 'अणद्वाए' अनर्थाय येन सयमविराधना सपचते सोऽनर्थस्तस्मै, अथवा न - शब्दोऽत्र अल्पार्थकस्तेन अनर्थाय अल्पप्रयोजनाय संयमसम्बन्धिगाढाऽऽगाढकारणमन्तरेण सांधो वारोहणं शास्त्रे निषिद्वम्, ततो यो गाढागाढकारणमन्तरेण 'णावं' नावं नौका नद्यादिजलाशयरय पारगमनाय 'दूरुहइ' दृरोहति नौकायामधिरोहणं करोति तथा 'दुल्हतं वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy