SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २१६ निशोथसूत्रे न कर्तव्यम् । एतासु दशसु राजधानीषु तादृशीण्वन्यासु वा मासाभ्यन्तरे यो भिक्षुर्द्विवारं त्रिवारं वा गमनागमनं करोति कारयति वा तथा गमनागमनं कुर्वन्तं वाऽन्यमनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकार:भाष्यम्-चंपाइयं च एयं, पुव्वुत्तं रायहाणिदसगं जं । रज्जाभिसेगसमए, दुत्तियवारं न गच्छेऽत्थ ॥१॥ छाया-चस्पादिकं चैतत् पूर्वोक्तं राजधानीदशकं यत् ___राज्याभिषेकसमये, द्वित्रिवारं न गच्छेदन ॥१॥ अवचूरिः – 'चंपाइयं' इत्यादि । एतत् चम्पादिकं राजधानीदशकं दश. राजधान्य इत्यर्थः यत् पूर्योक्तम् , अत्र दशसु राजधानीषु राज्याभिषेकसमये राज्याभिषेकमहोत्सवकाले भिक्षुः श्रमणः श्रमणी वा न गच्छेत् । उत्सवसमये एतासु राजधानीपु एकवारादधिकं द्विवारं त्रिवारं च भिक्षार्थमन्यकाथि वा गमने साधोवंहवो दोषा भवन्ति, तथाहि-उत्सवसमये तत्र हयानां गनानां रथानां जनानां च परस्परं संघट्टनरूपः संमर्दो भवति तेन तत्रत्यो मार्गोऽवरुद्धः स्यात् ततस्तत्र गमने आत्मविराधनासंभवः, तथा तत्र भिक्षायां बहुकालक्षेपो जायते, तेन स्वाध्यायध्यानादिषु व्याघातो भवति, तत्र भिक्षार्थ भ्रमणे लोकापवादोऽप्यवश्यम्भावी-यदयं साधुराहारलोलुपः स्त्र्यादिर्शनस्पर्शनलोलुपश्च दृश्यते, इत्यादि । यस्मादेते दोषा भवन्ति तस्मात्कारणात् श्रमणस्तत्र निष्कमणं वा प्रवेश वा न कुर्यात् न कारयेत् कुर्वन्तं वा नानुमोदयेत् । यद्येवं कुर्यात्तदा स प्रायश्चित्तभागी भवति, आज्ञाभङ्गादिदोषांश्चापि प्राप्नोतीति भाष्यगाथाभावार्थः ॥२०॥ सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ । तंजहा-खत्तियाण वा रायाण वा कुरायाण वा रायपेसियाण वा रायवंसियाण व-त्ति सू० २१॥ छाया-यो भिक्षुः राक्षः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामशनं वा पानं घा खाद्य वा स्वाद्य वा परस्मै निहतं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते तद्यथा-क्षत्रियेभ्यः वा राजभ्यो वा कुराजेभ्यो वा राजप्रेष्येभ्यो वा राजवंश्येभ्यो वा, इति ॥सू० २१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः 'खत्तियाण क्षत्रियाणाम् 'मुदियाणं' मुदितानाम् 'मुद्धाभिसित्ताणं' मूर्द्धाभिषिकानाम् 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनं पानं खाद्य स्वायं वा यत् 'परस्स नीहडं' अत्र 'परस्स'
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy