SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १३४ wwwwwwwwww w - - निशीथसूत्र नावापूराणां नावाकारकृतानामे हस्ततलानां 'पसली' इति प्रसिद्धानां 'आयमइ' आचमति शौचं करोतीत्यर्थः, प्रथमं तु यदि एकेनैव नावापूरेण निर्लेप्तुं शक्यते तदा एकेनैव नावापूरेण निर्लेपयेत् न तु तदधिकेन, किन्तु कारणवशात्तदधिकेन द्वितीयेन तृतीयेन वा नावापूरेणापि निर्ले. पयेत् । ततोऽधिकेन चतुर्थपश्चमादिना नावारेण यद्याचमति । 'आयमंतं वा साइज्जई' नावापरत्रयान् अधिकेन नावापूरेण आचमन्तं शौचं कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १४३ ।। सूत्रम्-जे भिक्खू अपारिहारिए णं पारिहारियं वएज्जा-एहि अज्जो ! तुमं च अहं च एगओ असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता, तओ पच्छा पत्तेयं पत्तेयं भोक्खामो वा पाहामो वा, जो तं एवं वयइ, वयंत वा साइज्जइ ॥सू० १४४॥ छाया - यो भिक्षुः अपारिहारिकः खलु पारिहारिकं वदेत् "एहि आर्य ! त्वं च अहं च एकतोऽशनं वा पानं वा खाद्य वा स्वाद्यं वा प्रतिगृह्य ततः पश्चात् प्रत्येक.प्रत्येक भोक्ष्यावो पास्याचा वा" यस्तमेवं वदति वदन्तं वा स्वदते ॥ सू० १४४।। । । चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अपारिहारिए गं' अपा'रिहारिकः खलु, तत्र पारिहारिकः परिहारनामकप्रायश्चित्तरहितो विशुद्धः' शुद्वाचारो वा साधुरित्यर्थः, 'पारिहारियं' पारिहारिक-प्राप्तपरिहारनामकप्रायश्चित्तं मासिकादियावत्पाण्मासिकान्तं परिहारनामकप्रायश्चित्ततपो वहमानं पारिहारिकम् 'वएज्जा' वदेत्-कथयेत्, किं वदेत् ! इत्याह-एहि अज्जो' ! इत्यादि । 'एहि अन्जो' एहि आर्य ! हे आर्य एहि अत्रागच्छ 'तुमं च अहं च त्वं चाहं च 'एगओ' एकतः-एकत्र मिलित्वा 'असणं वा' अशनम् वा 'पाणं वा' पानं वा 'खाइम' खाद्यं वा 'साइमं वा' स्वाद्य वा 'पडिग्गाहेत्ता' परिगृह्य एतेषामशनादीनां मिलित्वैव ग्रहणं कृत्वा 'तओ पच्छा" तंतः पश्चात् ग्रहणादनन्तरम् 'पत्तेयं पत्तेयं प्रत्येक प्रत्येकं-भिन्नभिन्नस्थाने उपविश्य 'भोक्खामो वा पाहामो वा' भोक्ष्यावः आहारं करिष्यावः, पास्यावः-जलादिपान करिष्यावः, 'जो त एवं-वयई' यो भिक्षुरेवप्रकारेण तं पारिहारिक प्रति वदति-कथयति 'वयंतं वा साइज्जई' वदन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। स्०१४४॥ संप्रति उद्देशकोपसंहारमाह-'त सेवमाणे' हुन्यादि । सूत्रम्-तं सेवमाणे आवज्जइ मासियं परिहारहाणं उग्घाइयं ११४५॥ ।। निसीहे चत्यो उद्देसो समत्तो ॥४॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy