SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाष्यावचूरिः उ० ४ सू० १४० - १४५ उच्चारप्रवणपरिष्ठापनाधिकारः १९३३ उच्चारप्रस्रवणं 'परिद्ववेत्ता' परिष्ठाप्य व्युत्सृज्य 'णायमइ' नाचमति आचमनं न करोति- शौचं न करोतीत्यर्थः 'णायमंतं वा साइज्जइ' नाचमन्तं वा स्वदते मुत्रपुरीषोत्सर्जनानन्तरमचित्तजलेन प्रक्षालनं न करोति न कुर्वन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४० ॥ सूत्रम् - जे भिक्खू उच्चारपासवणं परिवेत्ता तत्थेव आयम, आयमंतं वा साइज्जइ ॥ १४१ ॥ छाया - यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाप्य तत्रैवाचमति आचमन्तं वा स्वदते । चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चार पासवणं' उच्चारप्रस्रवणम् 'परिद्ववेत्ता' परिष्ठाप्य व्युत्सृज्य ' तत्थेव आयमइ' यत्रैव स्थण्डिलादौ परिष्ठापयति तत्रैव स्थंडिला दौ - आचमति शौचं करोति, तत्रैवाचमने उच्चारादिना हस्तस्य लेपसंभवात् । तथा तत्रैव 'आयमंतं वा साइज्जइ' आचमन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४१ ॥ सूत्रम् — जे भिक्खू उच्चारपासवणं परिवेत्ता अइदूरे आयमह आयमंतं वा साइज्जइ ॥ १४२ ॥ छाया - यो भिक्षुरुच्चारप्रस्रवणं परिष्ठाध्यातिदूरे आचमति आचमन्तं वा स्वदते ॥१४२॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'उच्चार पासवणं' उच्चारप्रस्रवणम् 'परिद्ववेत्ता' परिष्ठाप्य व्युत्सृज्य. 'अइदुरे आयमइ' अतिदूरे आचमति यत्र स्थण्डिलादौ परिष्ठापन कृतं तस्मात् स्थण्डिलादतिदूरे हस्तरातप्रमाणे स्थाने गत्वा आचमति शौचं करोति तथा 'आयमंतं वा साइज्जइ' पुरीषपरिष्ठापनस्थानादतिदूरं गत्वा आचमन्तं शौचादिकं कुर्वन्तं श्रमणं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥ सू० १४२ ॥ · , सूत्रम् — जे भिक्खू उच्चारपासवणं परिवेत्ता परं तिण्हं नावा पूराणं आयमइ आयमंतं वा साइज्जइ ॥ १४३ ॥ छाया - यो भिक्षुरुच्चारप्रस्त्रवणं "परिष्ठाप्य परं त्रयाणां नावांपूराणांमाचमति आचमन्तं वा स्वदते ॥ सू १४३ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिद्ववेत्ता' परिष्ठाप्य व्युत्सृज्य 'परंतिण्डं' परमधिकं त्रयाणाम् 'नावापूराणं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy