SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ - जम्बूद्वीपप्रजातिसूत्रे __ छाया-तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र खलु महदेकं भवनं प्रज्ञप्तम् , क्रोशमायामेन अर्द्धक्रोश विष्कम्भेण देशोनकं क्रोशमूर्ध्वमुच्चत्वेन अनेकस्तम्भशतसंनिविष्टं प्रासादीय दर्शनीयम् । तस्य खलु भवनस्य त्रिदिशि त्रीणि द्वाराणि प्रज्ञशानि, तानि खलु द्वाराणि पञ्चधनुःशतानि ऊर्ध्वमुच्चत्वेन, सार्द्धततीयानि धनुःशतानि विष्कम्भेण, ताव देव च प्रवेशेनाश्वेतानि वरकनकस्तूपिकानि यावत् वनमालाः ज्ञातव्याः। तस्य खलु भवनस्य अन्तः बहुसमरणीओ भूमिभागः प्रज्ञप्तः स यथा नामकः आलिङ्गपुष्कर इति वा । तस्य खलु बहुमध्यदेशभागे, अन खलु महती एका मणिपीठिका प्रज्ञप्ता । सा खलु मणिपीठिका पञ्चधनुः शतानि आयामविष्कम्भेण, सार्द्धतृतीयानि धनु शतानि वाहल्येन, सर्वमणिमयी अच्छा० । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु महदेकं शयनीयं प्रज्ञसम् । शयनीयवर्णको भणितव्यः । तत् खलु पद्मस् अन्येन अष्टशतेन पदमानां तदोच्चत्वंप्रमाणमात्राणां सर्वतः समन्तात् संपरिसिप्तम् । तानि खलु अर्द्धयोजनमायामविष्कम्भेण, क्रोशं वाइल्येन, दश योजनानि उद्वेधेन क्रोशमुच्छ्रितानि जलान्तात् सातिरेकाणि दश योजनानि सर्वाग्रेण तेषां खलु पद्मानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-चत्रमयानि मूलानि यावत् कनकमयी कर्णिका । सा खलु कणिका क्रोशमायामेन, अर्द्धक्रोशं वाहल्येन, सर्वकनकमयी अच्छा इति । तस्याः खलु कणिकाया उपरि बहुसमरमणीयो यावत् मणिभिरुपशोभितः। तस्य खलु पद्मस्य अवरोत्तरे उत्तरे उत्तरपौरस्त्ये अत्र खलु श्रिया देव्याः चतसृणां सामानिकसाहस्रीणां चतस्रः पद्मसाहस्यः प्रज्ञप्ताः। तस्य खलु पदमस्य पौरस्त्ये अत्र खल श्रिया देव्याः चतसृणां महत्तरिकाणां चत्वारि पदमानि प्रज्ञप्तानि, तस्य खलु पद्मस्य दक्षिणपौरस्त्ये श्रिया देव्याः आभ्यन्तरिकायाः परिपद: अष्टानां देवसाहसीणाम् अष्ट पद्मसाहस्य: प्रज्ञप्ताः । दक्षिणे मध्यमपरिषदौ दशानां देवसाहस्रीणां दश पद्मसाहस्त्र्यः प्रज्ञप्ताः । दक्षिणपश्चिमे वाह्यायाः परिपदो द्वादशानां देवसाहस्रीणां द्वादश पद्मसाइस्त्यः प्रज्ञप्ताः, पश्चिमे सप्ता. नामनीकाधिपतीनां सप्त पद्मानि, प्रज्ञतानि। तस्य खलु पद्मस्य चतुर्दिशि सर्वतः समन्तात् अत्रखलु श्रिया देव्याःषोडशानामात्मरक्षकदेवसाहस्रीणां पोडश पद्मसाहरूयः प्रज्ञप्ताः तत् खलु त्रिभिः पद्मपरिक्षेपैः सर्वतः समन्तात् संपरिक्षिप्तम् , तद्यथा-आभ्यन्तरकेण१, मध्यमेन२, वाह्यकेन ३ आभ्यन्तरके पद्मपरिक्षेपे द्वात्रिंशत् पद्मशतसाहस्थ्यः प्रज्ञप्ताः, मध्यमके पद्मपरिक्षेपे चत्वारिंशत् पद्मशतसाहस्व्यः प्रज्ञप्ताः, वाह्यके पद्मपरिक्षेपे अष्टचत्वारिंशत् पद्म शसाहस्यः प्रज्ञप्ताः । एवमेव सपूर्वापरेण त्रिभिः पद्मपरिक्षेपैः एका पद्मकोटीविंशतिश्च पद्मशतसाहस्त्र्यो भवन्तीति आख्यातम् । ___ अथ के नार्थेन भदन्त ! एवमुच्यते पद्महूदो पद्मदः, गौतम । पद्म इदः खलु तत्र२ देशे तत्र२ वहूनि उत्पलानि यावत् शतसहस्रपत्राणि पद्मदवर्णाभानि श्रीश्चात्र देवी महद्धिका यावत् पल्योपमस्थितिका परिवसति तद् एतेनार्थेन यावत अदुत्तरम् (अथ) च खलु गौतम ! पदूमहदस्य शाश्वतं नामधेयं प्रज्ञप्तम् । न कदाचित् नासीद् म० ॥ सू०३॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy